SearchBrowseAboutContactDonate
Page Preview
Page 430
Loading...
Download File
Download File
Page Text
________________ वृत्तिः अनुयो मलधारीया ॥२१३॥ CROCHACHUCACCUCAUSA M॥१॥" किंच-यदि दृष्टान्ते सत्त्वासत्त्वदर्शनाद्धेतुर्गमक इष्यते तदा लोहलेख्यं वज्रं पार्थिवत्वात् काष्ठादिवदित्यादेरपि गमकत्वं स्याद् , अभ्यधायि च-"दृष्टान्ते सदसत्त्वाभ्यां, हेतुः सम्यग् यदिष्यते । लोहलेख्यं उपक्रमे भवेद्वज्रं, पार्थिवत्वाद् द्रुमादिवद् ॥१॥” इति । यदि च-पक्षधर्मत्वसपक्षसत्वविपक्षासत्त्वलक्षणं हेतोस्टेरू प्रमाणद्वारं प्यमभ्युपगम्यापि यथोक्तदोषभयात् साध्यन सहान्यथानुपपन्नत्वमन्वेषणीयं तर्हि तदेवैकं लक्षणतया वक्तुमुचितं, किं रूपत्रयेणेति, आह च-"अन्यथानुपपन्नत्वं, यत्र तत्र त्रयेण किम् ? । नान्यथानुपपन्नत्वं, यत्र तत्र त्रयेण किम् ? ॥१॥” इत्यादि, अत्र बहु वक्तव्यं तत्तुनोच्यते, ग्रन्थगहनताप्रसङ्गात्, अन्यत्र यत्नेनोक्तत्वाचेति। आह-प्रत्यक्षविषयत्वादेवात्रानुमानप्रवृत्तिरयुक्ता, नैवं, पुरुषपिण्डमात्रप्रत्यक्षतायामपि मत्पुत्रो न वेति सन्देहायुक्त एवानुमानोपन्यास इति कृतं प्रसङ्गेन । 'से किं तं सेस'मित्यादि, पुरुषार्थोपयोगिनः परिजिज्ञासितात्तुरगादेरादन्यो हेषितादिरर्थः शेष इहोच्यते, स गमकत्वेन यस्यास्ति तच्छेषवदनुमानं, तच्च पञ्चविधं, तद्यथा-कार्येणेत्यादि, तत्र कार्येण कारणानुमानं यथा-हयम्-अश्वं हेषितेन अनुमिनुते इत्यध्याहारः, हेषितस्य तत्कार्यत्वात्, तदाकर्ण्य हयोऽत्रेति या प्रतीतिरुत्पद्यते तदिह कार्येण-कार्यद्वारेणोत्पन्नं शेषवदनुमा-15 नमुच्यत इति भावः, कचित्तु प्रथमतः शङ्खं शब्देनेत्यादि दृश्यते, तत्रोक्तानुसारतः सर्वोदाहरणेषु भावना कार्या। 'से किं तं कारणण'मित्यादि, इह कारणेन कार्यमनुमीयते, यथा विशिष्टमेघोन्नतिदर्शनात् कश्चित् वृष्ट्यनुमानं करोति, यदाह-"रोलम्बगवलव्यालतमालमलिनविषः । वृष्टिं व्यभिचरन्तीह, नैवंप्रायाः प Jain Education For Private & Personal Use Only Zarjainelibrary.org
SR No.600060
Book TitleAnuyogadwarasutram Uttarardham
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages546
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size23 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy