SearchBrowseAboutContactDonate
Page Preview
Page 429
Loading...
Download File
Download File
Page Text
________________ यादित्यर्थः, केन पुनाल य मत्र प्रयोगो-मत्पुत्रोऽयम् नैवं, हेतोः परमार्थन षवत् दृष्टसाधर्म्यवच्चेति । 'से किं तं पुव्वव'मित्यादि, विशिष्टं पूर्वोपलब्धं चिहमिह पूर्वमुच्यते, तदेव निमित्तरूपतया यस्यानुमानस्यास्ति तत्पूर्ववत्, तद्वारेण गमकमनुमानं पूर्ववदिति भावः। तथा चाह-माता पुत्र'मित्यादि श्लोकः, यथा माता स्वकीयं पुत्रं बाल्यावस्थायां नष्टं युवानं सन्तं कालान्तरेण पुनः कथमप्यागतं काचित्तथाविधस्मृतिपाटववती, न सर्वाः, पूर्वदृष्टेन लिङ्गेन केनचित् क्षतादिना प्रत्यभिजानीयात्-मत्पुत्रोऽयमिति अनुमिनुयादित्यर्थः, केन पुनर्लिङ्गेनेत्याह-'क्षतेन वेत्यादि, खदेहोद्भवमेव क्षतं, आगन्तुकस्तु श्वदंष्ट्रादिकृतो भवणः, लाञ्छनमषतिलकास्तु प्रतीताः, तदयमत्र प्रयोगो-मत्पुत्रोऽयम्, अनन्यसाधारणक्षतादिलक्षणविशि ष्टलिकोपलब्धेरिति, साधर्म्यवैधर्म्यदृष्टान्तयोः सत्त्वेतराभावादयमहेतुरिति चेत्, नैवं, हेतोः परमार्थेनैकलक्षणत्वात्, तहलेनैव गमकत्वोपलब्धेः, उक्तं च न्यायवादिना पुरुषचन्द्रेण-"अन्यथाऽनुपपन्नत्वमानं हेतोः स्खलक्षणम् । सत्त्वासत्त्वे हि तद्धौ, दृष्टान्तद्वयलक्षणे ॥१॥" तद्धर्माविति-अन्यथानुपपन्नत्वधर्मों, कथम्भूते सत्त्वासत्त्वे इत्याह-साधर्म्यवैधर्म्यरूपे दृष्टान्तद्वये लक्ष्यते-निश्चीयते,अथ यदि दृष्टान्तद्वयलक्षणेन च धर्मिसत्तायां धर्माः सर्वेऽपि सर्वदा भवन्त्येव, पटादेः शुक्लत्वादिधमैर्व्यभिचारात्, ततो दृष्टान्तयोः सत्त्वासत्त्वधर्मों यद्यपि कचिद्धेतौ न दृश्येते तथापि धर्मिखरूपमन्यथानुपपन्नत्वं भविष्यतीति न कश्चिद्विरोध इति भावः। यत्रापि धूमादौ दृष्टान्तयोः सत्वासत्त्वे हेतोदृश्यते तत्रापि साध्यान्यथानुपपन्नत्वस्यैव प्राधान्यात्तस्यैवैकस्य हेतुलक्षणताऽवसेया, तथा चाह-"धूमादेर्यद्यपि स्यातां, सत्त्वासत्त्वे च लक्षणे । अन्यथानुपपन्नत्वप्राधान्याल्लक्षणैकता पापि धर्मिखहावेः गुरूवादिषयने निश्चीयतेनबर्माविति Jain Educationa l For Private & Personel Use Only Mrjainelibrary.org
SR No.600060
Book TitleAnuyogadwarasutram Uttarardham
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages546
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size23 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy