________________
मेताः सद्भूततयाऽसङ्ख्येयाः कल्पनया त्वष्टौ श्रेणयो विस्तरसूचिरिह गृह्यते, 'अहव 'मित्यादि, अथवा अमुलतृतीयवर्गमूलस्य द्विकलक्षणस्य यो घनः अष्टौ, एतावत्यः श्रेणयोऽत्र विष्कम्भसूच्यां गृह्यन्ते इति स एवार्थः, तदेवं भुवनपत्यादिसूचिरेषाऽसङ्ख्येयगुणहीना मन्तव्या, शेषं सुखोन्नेयं यावत् ‘से तं खेत्तपलिओवमे'त्ति । तदेवं 'समयावलियमुहत्ते'त्यादिगाथानिर्दिष्टास्तदुपलक्षिताश्चान्येऽप्युच्छ्वासादयो व्याख्याताः कालविभागाः, अत आह-से तं विभागणिप्फण्णे'त्ति, एवं च समर्थितं कालप्रमाणमित्याह-'से तं कालप्पमाणे त्ति ॥ १४५॥ अथ भावप्रमाणमभिधित्सुराह
से किं तं भावप्पमाणे ?, २ तिविहे पण्णत्ते, तंजहा-गुणप्पमाणे नयप्पमाणे संखप्पमाणे (सू० १४६)। से किं तं गुणप्पमाणे?, २ दुविहे पण्णत्ते, तंजहा-जीवगुणप्पमाणे अजीवगुणप्पमाणे अ । से किं तं अजीवगुणप्पमाणे ?, २ पंचविहे पण्णत्ते, तंजहा-वण्णगुणप्पमाणे गंधगुणप्पमाणे रसगुणप्पमाणे फासगुणप्पमाणे संठाणगुणप्पमाणे, से किं तं वण्णगुणप्पमाणे ?, २ पंचविहे पण्णत्ते, तंजहा-कालवण्णगुणप्पमाणे १नारकादिसूचिभ्य एषा प्र.
56671555
Jain Educati
onal
For Private & Personel Use Only
Diwww.jainelibrary.org