________________
वृत्तिः
अनुयो० मलधा
रीया
॥२०९॥
योजनशतानां यो वर्गस्तद्रूपो यः प्रतिभाग:-अंशः, कस्येत्याह-प्रतरस्य, इदमुक्तं भवति-सङ्ख्येययोजनशतवर्गमूलं प्रतरस्य भागं यद्येकैको व्यन्तरोऽपहरति तदा सर्वोऽपि प्रतरोऽपहियते, यदिवा तावति भागे एकैक- | उपक्रमे स्मिन् व्यन्तरेऽवस्थाप्यमाने सर्वोऽपि प्रतरः पूर्यते । ज्योतिष्कसूत्रेऽपि तासि णं सेढीणं विक्खंभसूई खयमेव प्रमाणद्वारं दृश्येति वाक्यशेषोऽवसेयः, सा च व्यन्तरविष्कम्भसूचेः सङ्ख्येयगुणा द्रष्टव्या, व्यन्तरेभ्यो ज्योतिष्काणां सङ्ख्येयगुणत्वेन महादण्डके पठितत्वाद, इहापि च प्रतरापहारक्षेत्रस्य तत्क्षेत्रादमीषां सङ्ख्येयगुणहीनस्याभिधानात्, तदाह-'बेछप्पन्नंगुलसयवग्गपलिभागोंत्ति षट्पञ्चाशदधिकाङ्गुलशतद्वयवर्गरूपं प्रतिभागंप्रतरस्यांशं यद्येकैको ज्योतिष्कोऽपहरति तदा सर्व प्रतरमपहरन्ति, प्रत्येकं स्थाप्यमाना वा तावति प्रतिभागे सर्व प्रतरं पूरयन्ति, व्यन्तरेभ्य एते सङ्ख्येयगुणत्वाद्बहवः, ततो व्यन्तरोक्तप्रतरप्रतिभागक्षेत्रखण्डाद्यथोक्तरूपतया सङ्ख्येयगुणहीनेन स्वल्पेनापि क्षेत्रखण्डेन प्रतरमेतेऽपहरन्ति पूरयन्ति वा इति भावः । वैमानिकसूत्रेऽपीत्थमेव, नवरं वैमानिकाः प्रज्ञापनायां भवनपतिनारकव्यन्तरज्योतिष्केभ्यः प्रत्येकं सर्वेभ्योऽप्यसङ्ख्येयगुणहीनाः पश्यन्ते, अतो विष्कम्भसूच्यां विशेषः, तमाह-'तासि णं सेढीण'मित्यादि, तासां श्रेणीनां विष्कम्भसूचिरडलस्य द्वितीयवर्गमूलं तृतीयवर्गमूलेन गुणितम्, इदमुक्तं भवति-अङ्गुलप्रमाणे प्रतरक्षेत्रे सद्भावतोऽसङ्ख्यया अपि कल्पनया द्वे शते षट्पञ्चाशदधिके श्रेणीमां भवतः २५६, अत्र प्रथमवर्गमूलं १६
का॥२०९॥ द्वितीयं ४ तृतीयं २, तत्र द्वितीयं वर्गमूलं चतुष्टयलक्षणं तृतीयेन द्विकलक्षणेन गुणितं, जाता अष्टौ, एव-18
Jain Education in
For Private & Personel Use Only
DMainelibrary.org