________________
-4
वृत्तिः
अनुयो. मलधारीया
॥२०६॥
जघन्यत उत्कृष्टतश्चान्तर्मुहूर्तस्थितिकत्वेन परतः सर्वेषां निर्लेपत्त्वसम्भवात्, यदा तु भवन्ति तदा जघन्यत एको द्वौ त्रयो वा उत्कृष्टतस्त्वसङ्ख्याताः, इतरे तु सर्वदैव सङ्ख्यया भवन्ति, नासङ्ख्येयाः, तत्र सम्मू
उपक्रमे पच्छेजा यदा न भवन्ति तदैव जघन्यपदिनो गर्भजा एव गृह्यन्ते, अन्यथा जघन्यपदवर्तित्वमेव न स्यात्, ते
प्रमाणद्वार च स्वभावात् सङ्ख्येया एव, अतस्तच्छरीराण्यपिबद्धानि सङ्ख्येयान्येव, अत उक्तं-जहण्णपए संखेजत्ति, सङ्ख्येयकस्य सङ्ख्यातभेदत्वान्न ज्ञायते कियदपि सङ्ख्ययकमित्याह-सख्येयाः कोटीकोटयः, पुनर्विशेषितं तमाह-तिजमलपयस्स उवरिं चउजमलपयस्स हेडत्ति, इदमुक्तं भवति-अष्टानामष्टानामङ्कस्थानानां यमलपदमिति सामयिकी संज्ञा, ततस्त्रयाणां यमलपदानां समाहारस्त्रियमलपदं चतुर्विशत्यङ्कस्थानलक्षणम्, अथवा तृतीयं यमलपदं षोडशानामङ्कस्थानानामुपरितनाङ्काष्टकलक्षणमिति स एवार्थः, तस्य त्रियमलपदस्य उपरि प्रस्तुतमनुष्या भवन्ति, चतुर्विशत्यङ्कस्थानान्यतिक्रम्य जघन्यपदवर्तिनां गर्भजमनुष्याणां सन्ख्या वर्तत इत्यर्थः, तर्हि चतुरादीन्यपि यमलपदानि भवन्ति ? नेत्याह-'चउजमलपयस्स हेट्ठत्ति चतुर्णा यमलपदानां समाहारश्चतुर्यमलपदं-द्वात्रिंशदङ्कस्थानलक्षणम् , अथवा चतुर्थ यमलपदं चतुर्यमलपदं चतुर्विशतेरङ्कस्थानानामुपरितनाङ्काष्टकलक्षणमित्येक एवार्थः, तस्य चतुर्यमलपदस्याधस्तादेकोनत्रिंशदङ्कस्थानेष्वनन्तरमेव वक्ष्यमाणखरूपेषु प्रकृतमनुष्यसङ्ख्या वर्तत इति भावः, अथवा द्वौ वर्गावनन्तरमेव वक्ष्यमाणस्वरूपौ|॥२०६॥ यमलपदमिति सामयिक्येव परिभाषा, ततस्त्रयाणां यमलपदानां समाहारस्त्रियमलपदं-वर्गषटुलक्षणं तस्योपरि
Jain Education International
For Private Personal Use Only
www.jainelibrary.org