________________
स्त्वभ्युपगमपरत्वात् , तस्मादेतन्मते द्रव्यावश्यकस्यासंभव इति, निगमयन्नाह-'सेत्त'मित्यादि, तदेतदागमतो द्रव्यावश्यकम् ॥ १४ ॥ उक्तं सप्रपञ्चमागमतो द्रव्यावश्यकमिदानीं नोआगमतस्तदुच्यते
से किं तं नोआगमओ दवावस्सयं?, २ तिविहं पण्णत्तं, तंजहा-जाणयसरीरदव्वाव
स्सयं भविअसरीरदव्वावस्सयं जाणयसरीरभविअसरीरवतिरित्तं दवावस्सयं(सू०१५) अथ किं तन्नोआगमतो द्रव्यावश्यकमिति प्रश्नः, उत्तरमाह-'नोआगमओ दवावस्सयं तिविहं पण्णत्त|मित्यादि, नोआगमत इत्यत्र नोशब्द आगमस्य सर्वनिषेधे देशनिषेधे वा वर्त्तते,यत उक्तं पूर्वमुनिभिः-"आ-3 गमसव्वनिसेहे नोसद्दो अहव देसपडिसेहे । सव्वे जह णसरीरं भव्वस्स य आगमाभावा॥१॥" व्याख्या-आगमस्य-आवश्यकादिज्ञानस्य सर्वनिषेधे वर्त्तते नोशब्दः, अथवा तस्यैव देशप्रतिषेधे वर्तते, तत्र 'सव्वें'त्ति सर्वनिषेधे उदाहरणमुच्यते, यथेत्युपप्रदर्शने, 'णसरीति ज्ञस्य-जानतः शरीरं ज्ञशरीरं नोआगमत इह द्रव्यावश्यकं, 'भव्यस्य च योग्यस्य यच्छरीरं तदपि नोआगमत इह द्रव्यावश्यक, कुत इत्याह-आगमस्य-आवश्यका-2 दिज्ञानलक्षणस्य सर्वथाऽभावाद, इदमुक्तं भवति-ज्ञशरीरं भव्यशरीरं चानन्तरमेव वक्ष्यमाणस्वरूपं नोआगमतः सर्वथा आगमाभावमाश्रित्य द्रव्यावश्यकमुच्यते, नोशब्दस्यात्र पक्षे सर्वनिषेधवचनत्वादिति गाथार्थः॥ देशप्रतिषेधवचनेऽपि नोशब्दे उदाहरणं यथा-"किरियागमुच्चरंतो आवासं कुणइ भावसुन्नो उ । किरिया-|
अनु.४
Jain Education
For Private & Personel Use Only
New.jainelibrary.org
Ol.