________________
पन प्रकारेण प्रस्तुतका विस्तरसूचिरिह मा एषा चतुःषष्टिरमा
ROSISAAROSESORARLIG
वर्गमूलानि तिष्ठन्त्यतः प्रथमवर्गमूलं द्वितीयवर्गमूलेन प्रत्युत्पन्नं-गुणितं तथा च सति यावन्त्योऽत्र श्रेण्यो लब्धा एतावत्प्रमाणा श्रेणीनां विष्कम्भसूचिर्भवति, एतावत्यः श्रेण्योऽत्र गृह्यन्त इत्यर्थः, इदमुक्तं भवतिअङ्गुलप्रमाणे प्रतरक्षेत्रे किलासत्कल्पनया षट्पञ्चाशदधिके द्वे शते श्रेणीनां भवतस्तद्यथा २५६, अत्र प्रथमवर्गमूलं षोडश १६ द्वितीयं चत्वारः ४ चतुर्भिः षोडश गुणिता जाताश्चतुःषष्टिः, एषा चतुःषष्टिरपि सद्भाव-13 तोऽसङ्ख्येयाः श्रेण्यो मन्तव्याः, एतावत्सख्या श्रेणीनां विस्तरसूचिरिह ग्राह्या । 'अहव णमित्यादि, णमिति वाक्यालङ्कारे, अथवा-अन्येन प्रकारेण प्रस्तुतोऽर्थ उच्यते इत्यर्थः, 'अहव 'त्ति कचित्पाठः, स चैवं व्याख्यायते-अथवा नैष पूर्वोक्तः प्रकारोऽपि तु प्रकारान्तरेण प्रस्तुतोऽर्थोऽभिधीयते इति भावः, समुदितो वाऽयंशब्दोऽथवाशब्दस्यार्थे वर्तते, तदेव प्रकारान्तरमाह-'अंगुलबीयवग्गमूलघणे'त्यादि, अङ्गुलप्रमाणप्रतरक्षेत्रवर्तिश्रेणिराशेर्यद्वितीयवर्गमूलमनन्तरं चतुष्टयरूपं दर्शितं तस्य यो घन:-चतुःषष्टिलक्षणस्तत्प्रमाणाःतत्सङ्ख्याः श्रेण्योऽत्र गृह्यन्त इति, प्ररूपणैव भिद्यते अर्थस्तु स एवेति, तदेवं कल्पनया चतुःषष्टिरूपाणां सद्भावतोऽसख्येयानां श्रेणीनां यः प्रदेशराशिरेतावत्सङ्ख्यानि नारकाणां बद्धवैक्रियाणि प्राप्यन्त इति, प्रत्येकशरीरित्वान्नारका अप्येतावन्त एव, एवं च सति पूर्व नारकाः सामान्येनैवासङ्ख्येयां उक्ताः, अत्र तु शरीरविचारप्रस्तावात्तदप्यसख्येयकं प्रतिनियतस्वरूपं सिद्धं भवति, एवमन्यत्रापि प्रत्येकशरीरिणः सर्वे खकीयखकीयबद्धशरीरसख्यातुल्या द्रष्टव्याः, मुक्तवैक्रियाणि मुक्तौदारिकवद्वाच्यानि, आहारकाणि बद्धा
For Private Personal Use Only
M
JainEducation
ainelibrary.org