SearchBrowseAboutContactDonate
Page Preview
Page 406
Loading...
Download File
Download File
Page Text
________________ अनुयो मलधा वृत्तिः उपक्रमे प्रमाणद्वारं रीया ॥२०१॥ न्येषां न सम्भवन्ति, चतुर्दशपूर्वधरसम्भवित्वात्तद्वन्धस्य, मुक्तानि तु मुक्तौदारिकवद्वाच्यानि, मनुष्यभवे कृतोज्झिताहारकशरीराणांप्रतिपतितचतुर्दशपूर्वविदां नारकेषूत्पत्तिसम्भवादौदारिकोक्तन्यायेनानन्तानां तेषां सम्भव इति भावः, तैजसकार्मणानि तु बद्धानि मुक्तानि च यथैषामेव वैक्रियाणि तथा वक्तव्यानि । उक्तानि पश्चापि शरीराणि नारकेषु,अथासुरकुमारेषु तानि वक्तुमाह-'असुरकुमारांणं भंते! इत्यादि, औदारिकाण्यत्रापि नारकवद्वाच्यानि, वैक्रियाण्यपि तथैव, नवरमसुरकुमाराणां नारकेभ्यः स्तोकत्वात् प्रस्तुतशरीराण्यपि स्तोकान्यतो विष्कम्भसूच्यां विशेषः, सा चेयं-'तासि णं सेढीणं विक्खंभई'त्यादि, तासाम्-अनन्तरोक्त|श्रेणीनां विष्कम्भसूचिः-विस्तरश्रेणिरङ्गुलप्रथमवर्गमूलस्यासङ्ख्येयभागः, इदमुक्तं भवति-प्रतरस्याङ्गुलप्रमाणे क्षेत्रे यावन्त्यः श्रेणयो भवन्ति तासां यत्प्रथमवर्गमूलं तस्याप्यसङ्ख्ययभागे याः श्रेणयो भवन्ति तत्प्रमाणैव विस्तरसूचिरिह ग्राह्या, सा च नारकोक्तसूचेरसङ्ख्याततमे भागे सिद्धा भवति, ततो नारकाणामसुरकुमारा असङ्ख्येयभागे वर्तन्त इति प्रतिपादितं भवति, इत्थमेव चैतत्, यतः प्रज्ञापनामहादण्डके केवलरत्नप्रभानारकाणामपि समस्ता अपि भवनपतयोऽसङ्ख्याततमभागवर्तित्वेनोक्ताः किं पुनः समस्तनारकाणां केवला(अ)सुरकुमारा इति, आहारकाणि नारकवदेव, तैजसकार्मणान्यत्रैवोक्तवैक्रियवदिति । एवं समानैव वक्तव्यता यावत्स्तनितकुमाराः। पुढविकाइयाणं भंते ! केवइया ओरालिअसरीरा पं०?, गो०! दुविहा पण्णत्ता, तं ACCOACCURALACEAC-A ॥२०१॥ Jan Education Intemanona For Private Personel Use Only www.jainelorary.org
SR No.600060
Book TitleAnuyogadwarasutram Uttarardham
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages546
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size23 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy