SearchBrowseAboutContactDonate
Page Preview
Page 398
Loading...
Download File
Download File
Page Text
________________ रीया थाहि-किमेतानि मिति । पुनरप्याह-ननु जादाष्टराशेः कदाचिद्धीनानि । अनुयो० अभव्यजीवद्रव्यसङ्ख्यातोऽनन्तगुणानि सिद्धजीवद्रव्यसख्यायास्त्वनन्तभागवर्तीनि । आह-ययेवं यैः । वृत्तिः मलधा- सम्यक्त्वं लब्ध्वा पुनर्मिथ्यात्वे गमनात् तत्त्यक्तं ते प्रतिपतितसम्यग्दृष्टयोऽप्यभव्येभ्योऽनन्तगुणाः सिद्धाना- उपक्रमे मनन्तभागे प्रज्ञापनामहादण्डके पठ्यन्ते, तत्किमेतानि तत्तुल्यानि भवन्ति ?, नैतदेवं, यदि तत्समसङ्ख्यानि प्रमाणद्वारं द्रभवेयुस्तदा तथैवेह सूत्रे तानि निर्दिष्टानि स्युः, न चैवं, ततः प्रतिपतितसम्यग्दृष्टिराशेः कदाचिद्धीनानि कदाचितुल्यानि कदाचित्त्वधिकानि इति प्रतिपत्तव्यमिति । पुनरप्याह-ननु जीवैः परित्यक्तशरीराणामानन्त्यमेव तावन्नावगच्छामः, तथाहि-किमेतानि श्मशानादिगतान्यक्षतान्येव यानि तिष्ठन्ति तानि गृह्यन्ते उत खण्डीभूय परमाण्वादिभावेन परिणामान्तरापन्नानि?, यद्याद्यः पक्षस्तर्हि तेषामनन्तकालावस्थानाभावात् स्तोकत्वादानन्त्यं नास्त्येव, अथ चापरः पक्षस्तहि स कश्चिद पुनलोऽपि नास्ति योऽतीताद्धायामेकैकजीवेनी-| दारिकशरीररूपतया अनन्तशः परिणमय्य न मुक्तः, ततः सर्वस्यापि पुद्गलास्तिकायस्य ग्रहणमापन्नम् , एवं च | सत्यभव्येभ्योऽनन्तगुणानि सिद्धानामनन्तभागे इत्येतद्विरुध्यते, सर्वपुद्गलास्तिकायगतपुद्गलानां सर्वजीवेभ्योऽ-18 प्यनन्तानन्तगुणत्वाद्, अत्रोच्यते, नैष दोषो, भवदुपन्यस्तपक्षद्वयस्याप्यनङ्गीकरणात्, किन्तु जीवविप्रमुक्ते एकैकस्मिन्नौदारिकशरीरे यान्यनन्तखण्डानि जायन्ते तानि च यावदद्यापि तं जीवप्रयोगनिवर्तितमौदारि-1 कशरीरपरिणामं परित्यज्य परिणामान्तरं नासादयन्ति तावदौदारिकशरीरावयवत्वादेकदेशदाहेऽपि ग्रामो8॥ १९७॥ दग्धः पटो दग्ध इत्यादिवदवयवे समुदायोपचारादिह प्रत्येकमौदारिकशरीराणि भण्यन्ते, ततश्चैकैकस्य जीव SAMSAROKARSAAMSANSARAGAOSSA-5 Jain Education a l For Private & Personal Use Only Khjainelibrary.org
SR No.600060
Book TitleAnuyogadwarasutram Uttarardham
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages546
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size23 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy