________________
तत्कालतो मानमुक्तम् , अथ क्षेत्रतस्तदाह-खेत्तओ असंखेजा लोग'त्ति, इदमुक्तं भवति-प्रत्येकमसख्येयप्रदेशात्मिकायां स्वकीयखकीयावगाहनायां यद्येकैकं शरीरं व्यवस्थाप्यते तदाऽसख्येया लोकास्तैर्धियन्ते, एकैस्मिन्नपि नभःप्रदेशे प्रत्येकं तैर्व्यवस्थाप्यमानैरसख्येया लोका भ्रियन्ते एव, केवलं शरीरस्य जघन्यतोऽप्यसङ्ख्येयप्रदेशावगाहित्वादेकस्मिन् प्रदेशेऽवगाहः सिद्धान्ते निषिद्ध इति नेत्थमुच्यते, असत्कल्पनया उच्यतामेवमपि को दोष इति चेत्, को निवारयिता?, केवलं सिद्धान्तसंवादिप्रकारेण प्ररूपणेऽदुष्टे लश्यमाने स एव स्वीकतु श्रेयानिति, आह-भवत्वेवं, किंवौदारिकशरीरिणां मनुष्यतिरश्चामनन्तत्वात् कथमनन्तानि शरीराणि न भवन्ति येनासख्येयान्येवोक्तानि?, उच्यते, प्रत्येकशरीरिणस्तावदस-ख्याता एवातस्तेषां शरीराण्यप्यसङ्ख्यातान्येव, साधारणशरीरिणस्तु विद्यन्ते अनन्ताः, किन्तु तेषां नैकैकजीवस्यै कैकं शरीरं किन्त्वनन्तानामनन्तानामेकैकं वपुरित्यत औदारिकशरीरिणामानन्त्येऽपि शरीराण्यसङ्ख्येयान्येवेति । तत्थ जे ते मुक्केल्लयेत्यादि, भवान्तरसङ्क्रान्ती मोक्षगमनकाले वा जीवैर्यान्यौदारिकाणि मुक्तानित्यक्तानि समजिसतानि तान्यनन्तानि प्राप्यन्ते, अनन्तकस्यानन्तकत्वान्न ज्ञायते कियदप्यनन्तकमिदं, ततः कालेन विशेषयति-प्रतिसमयमेकैकापहारे अनन्ताभिरुत्सर्पिण्यवसर्पिणीभिरपहियन्ते, तत्समयराशितुल्यानि भवन्तीत्यर्थः. अथ क्षेत्रतो विशिनष्टि-खेत्तओ अणंता लोग'त्ति, क्षेत्रत:-क्षेत्रमाश्रित्यानन्तानां लोकप्रमाणखण्डानां यः प्रदेशराशिस्तत्तुल्यानि भवन्तीति भावः, द्रव्यतो नियमयति-'अभवसिद्धिएहि मित्यादि,
Jain Education in
For Private Personal Use Only
9
ainelibrary.org
II