________________
अनुयो० मलधारीया
वृत्तिः | उपक्रमे प्रमाणद्वारं
॥१९६॥
भवान्तरानुयायि कर्मणो विकारः कमैव वा कार्मणम् , अत्र खल्पपुद्गलनिष्पन्नत्वाहादरपरिणामत्वाच्च प्रथम- मौदारिकस्योपन्यासः, ततो बहुबहुतरबहुतमपुद्गलनिवृत्तत्वात् सूक्ष्मसूक्ष्मतरसूक्ष्मतमत्वाच क्रमेण शेषशरीराणामिति । तदेवं सामान्येन शरीराणि निरूप्य चतुर्विशतिदण्डके तानि चिन्तयितुमाह-नेरइयाणं भंते कइ सरीरा' इत्यादि पाठसिद्धमेव, यावत् 'केवइया णं भंते! उरालियसरीरा' इत्यादि, कियन्ति-कियत्सख्यान्यौदारिकशरीराणि सर्वाण्यपि भवन्ति, अत्रोत्तरं-गोयमा दुविहे'त्यादि, औदारिकशरीरसख्यायां पृष्टायां बद्धमुक्तत्वलक्षणं तद्वैविध्यकथनमप्रस्तुतमिति चेत्, नैवं, बद्धमुक्तयोर्भेदेन सख्याकथनार्थत्वात्तस्य, इदं च बद्धमुक्तौदारिकादिप्रमाणं क्वचिद् द्रव्येण-अभव्यादिना वक्ष्यति कचित्तु क्षेत्रेण-श्रेणिप्रतरादिना क-| चित्तु कालेन-समयावलिकादिना, भावेन तु न वक्ष्यति, तस्येह द्रष्यान्तर्गतत्वेन विवक्षितत्वात्, तत्र बद्धानामौदारिकशरीराणां कालतः क्षेत्रतश्च मानं निरूपयितुमाह-तत्थ णं जे ते बद्धेल्लया' इत्यादि, इह नारकदेवानामौदारिकशरीराणि बद्धानि तावन्न सम्भवन्त्येव, वैक्रियशरीरत्वात्तेषाम् , अतः पारिशेष्यात् तिर्यमानुष्यैस्तथाविधकर्मोदयाद् यानि बद्धानि-गृहीतानीत्यर्थः, पृच्छासमये तैः सह यानि सम्बद्धानि तिष्ठन्तीतियावत्, तानि सामान्यतः सर्वाण्यसङ्ख्येयानि, न ज्ञायते तदसख्येयं कियदपीत्यतो विशिनष्टि-'असंखजाहिमित्यादि, प्रतिसमयं यद्येकैकं शरीरमपहियते तदा असख्येयोत्सर्पिण्यवसर्पिणीभिः सर्वाण्यपहियन्ते, असङ्ख्ययोत्सर्पिण्यवसर्पिणीषु यावन्तः समयास्तावन्ति तानि बद्धानि प्राप्यन्त इति परमार्थः, तदे
॥१९६॥
Jain Education
For Private & Personel Use Only
jainelibrary.org