________________
CAROSAROOMASSACROSOS
योऽनुपयुक्तास्तावन्त्येव तान्यतीतादिकालत्रयवर्तीनि नैगमस्यागमतो द्रव्यावश्यकानि, एतदुक्तं भवति-नैगमो हि सामान्यरूपं विशेषरूपं च वस्त्वभ्युपगच्छत्येव, न पुनर्वक्ष्यमाणसंग्रहवत्सामान्यरूपमेव, ततो विशेषवादित्वादस्येह प्राधान्येन विवक्षितत्वाद्यावन्तः केचन देवदत्तादिविशेषा अनुपयुक्तास्तावन्ति सर्वाण्यप्यस्य द्रव्यावश्यकानि, न पुनः संग्रहवत्सामान्यवादित्वादेकमेवेतिभावः । एवमेव 'ववहारस्सवित्ति व्यवहरणं व्यवहारो लौकिकप्रवृत्तिरूपस्तत्प्रधानो नयोऽपि व्यवहारः, तस्यापि 'एवमेव' नैगमवदेको देवदत्तादिरनुपयुक्त आगमत एकं द्रव्यावश्यकमित्यादि सर्व वाच्यम्, इदमुक्तं भवति-व्यवहारनयो लोकव्यवहारोपकारिण एव पदार्थानभ्युपगच्छति, न शेषान् , लोकव्यवहारे च जलाहरणव्रणपिण्डीप्रदानादिके घटनिम्बादिविशेषा एवोपकुर्वाणा दृश्यन्ते न पुनस्तदतिरिक्तं तत्सामान्यमिति विशेषानेव वस्तुत्वेन प्रतिपद्यतेऽसौ न सामान्यं, व्यवहारानुपकारित्वाद्विशेषव्यतिरेकेणानुपलभ्यमानत्वाचेति, अतो विशेषवादिनैगममतसाम्येनातिदिष्टः । अत्र चातिदेशेनैवेष्टार्थसिद्धेग्रन्थलाघवार्थ संग्रहमतिक्रम्य व्यवहारोपन्यासः कृत इति भावनीयम् । 'संगहस्सेत्यादि सर्वमपि भुवनत्रयान्तर्वतिं वस्तुनिकुरुम्बं संगृह्णाति-सामान्यरूपतयाऽध्यवस्यतीति संग्रहस्तस्य मते एको वा अनेके वा अनुपयुक्तोऽनुपयुक्ता वा यदागमतो द्रव्यावश्यकं द्रव्यावश्यकानि वा तत्किमित्याह-से एगे'त्ति तदेकं द्रव्यावश्यकम्, इदमत्र हृदयम्-संग्रहनयः सामान्यमेवाभ्युपगच्छति न विशेषान, अभिदधाति च-सामान्याविशेषा व्यतिरिक्ताः स्युः अव्यतिरिक्ता वा स्युः, यद्यायः पक्षस्तर्हि
Jain EducationA
ional
For Private 3 Personal Use Only