SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ अनुयो मलधारीया उपक्रमे प्रमाणद्वारं ॥१८४॥ पु० जह० दस सा० उक्को० सत्तरस सागरोवमाइं, तमप्पहापु० जह० सत्तरस० उक्कोसेणं बावीस०, तमतमापुढविनेरइयाणं भंते ! के०?, गो० ! जह० बावीसं सा० उक्को सेणं तेत्तीसं सागरोवमाइं। यदि नारकादीनामायूंष्येतैर्मीयन्ते तर्हि नारकाणां भदन्त! कियन्तं कालं स्थितिःप्रज्ञप्ता? स्थीयते नारकादिभवेष्वनयेति स्थितिः-आयुःकर्मानुभवपरिणतिः, इह यद्यपि कर्मपुद्गलानां बन्धकालादारभ्य निर्जरणकालं यावत्सामान्येनावस्थितिः कर्मशास्त्रेषु स्थितिःप्रतीता (ग्रन्थाग्रं ४०००) तथाऽप्यायुःकर्मपुद्गलानुभवनमेव जीवितं रूढं, शास्त्रकारस्यापि च दशवर्षसहस्रादिकां स्थिति प्रतिपादयतस्तदेवाभिधातुमभिप्रेतम्, अन्यथा बढेनायुषा प्राग्भवे यावन्तं कालमवतिष्ठते जन्तुस्तेन समधिकैव दशवर्षसहस्रादिका स्थितिरुक्ता स्यात्, न चैवं, तस्मान्नारकादिभवप्राप्तानां प्रथमसमयादारभ्यायुषोऽनुभवकाल एवावस्थितिः, सा च नारकाणामौघिकपदे जघन्यतो दश वर्षसहस्राणि, उत्कृष्टतस्तु त्रयस्त्रिंशत्सागरोपमाणि, रत्नप्रभायां जघन्या तथैव उत्कृष्टा तु सागरोपमम्, अपर्याप्तपदे जघन्यत उत्कृष्टतश्चान्तमुहर्तमेव, ततः परमवश्यमेषां पर्याप्सत्वसम्भवात्, पर्याप्तपदे चापर्याप्तकालेन हीना औधिक्येव स्थितिद्रष्टव्या, एवमन्यावपि पृथिवीषु वाच्यं, नवरमुत्कृष्टा स्थितिः सर्वासु ॥१४॥ Jain Education International For Private & Personel Use Only www.jainelibrary.org
SR No.600060
Book TitleAnuyogadwarasutram Uttarardham
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages546
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy