________________
Jain Education In
तु या उत्तिष्ठन्ति ता द्व्याहिक्यः त्रिभिस्तु त्र्याहिक्यः, कथंभूत इत्याह- 'संसृष्ट' आकर्ण पूरित: 'सन्निचितः प्रचयविशेषान्निबिडीकृतः, किं बहुना १, एवंभूतोऽसौ भृतो येन तानि वालाग्राणि नाग्निर्दहेत् न वायुर पहरेत्, अतीव निचितत्वादग्निपवनावपि न तत्र क्रमेते इत्यर्थः, 'नो कुहेज'त्ति नो कुध्येयुः प्रचयविशेषादेव शुषिराभावात् वायोरसम्भवाच्च नासारतां गच्छेयुः, अत एव च 'नो परिविद्धंसेज 'त्ति कतिपयपरिशाटनमप्यङ्गीकृत्य न परिविध्वंसेरन्नित्यर्थः, अत एव च 'नो पूइत्ताए हब्वमागच्छेज'त्ति न पूतित्वेन कदाचिदप्यागच्छेयुः - न कदाचिद्दुर्गन्धितां प्राप्नुयुरित्यर्थः, 'तओ णं'ति तेभ्यो वालाग्रेभ्यः समये समये एकैकं वालाग्रमपहृत्य कालो मीयते इति शेषः, ततश्च 'जावइएण' मित्यादि, यावता कालेन स पल्यः 'क्षीणों' वालाग्रकर्षणात् क्षयमुपागतः आकृष्टधान्यकोष्ठागारवत्, तथा 'नीरए'त्ति निर्गतो रजः कल्पसूक्ष्मवालाग्रोऽपकृष्टधान्यरजः कोष्ठागारवत्, तथा 'निल्लेविति अत्यन्तसंश्लेषात् तन्मयतागतवालाग्रलेपापहारान्निर्लेपः अपनीतभित्त्यादिगतधान्यलेपकोष्ठागारबद्, एभिस्त्रिभिः प्रकारैर्निष्ठितो- विशुद्ध इत्यर्थः, एकार्थिका वा एते शब्दाः अत्यन्तविशुद्धिप्रतिपादनपराः, वाचनान्तरदृश्यमानं च अन्यदपि पदमुक्तानुसारेण व्याख्येयम्, एता| वत्कालखरूपं बादरमुद्धारपल्योपमं भवति, एतच्च पल्यान्तर्गतवालाग्राणां सङ्ख्येयत्वात् सङ्ख्येयैः समयैस्तदपहारसम्भवात् सख्येयसमयमानं द्रष्टव्यम् । 'से त'मित्यादि निगमनम् । व्यावहारिकं पल्योपमं निरूप्याथ सागरोपममाह - 'एएसिं पल्लाण' गाहा, 'एतेषाम्' अनन्तरोक्तपल्योपमानां दशभिः कोटाकोटिभिरेकं व्या
For Private & Personal Use Only
inelibrary.org