SearchBrowseAboutContactDonate
Page Preview
Page 368
Loading...
Download File
Download File
Page Text
________________ अनुयो० मलधारीया ॥१८२॥ ASARASANSAR वहारिक सागरोपमं भवतीति तात्पर्य, शिष्यः पृच्छति-एतैर्व्यावहारिकपल्योपमसागरोपमैः किं प्रयोजनं ?-18 वृत्तिः कोऽर्थः साध्यते ?, तत्रोत्तरं-नास्ति किश्चित्प्रयोजनं, निरर्थकस्तर्हि तदुपन्यास इत्याशङ्कयाह-केवलं प्रज्ञापना| उपक्रमे प्रज्ञाप्यते-प्ररूपणामात्रं क्रियत इत्यर्थः, ननु निरर्थकस्य प्ररूपणयाऽपि किं कर्तव्यम् ?, अतो यत्किञ्चिदेतत्, प्रमाणद्वार नैवम् , अभिप्रायापरिज्ञानाद एवं हि मन्यते, बादरे प्ररूपिते सूक्ष्मं सुखावसेयं स्याद् अतो बादरप्ररूपणा सूक्ष्मोपयोगित्वान्नैकान्ततो नैरर्थक्यमनुभवति, तर्हि नास्ति किश्चित्प्रयोजनमित्युक्तमसत्यं प्रामोतीति चेत्, नैवम्, एतावतः प्रयोजनस्याल्पत्वेनाविवक्षितत्वाद् , एवं बादराद्धापल्योपमादावपि वाच्यम् । 'से किं तं सुहमे' इत्यादि, गतार्थमेव, 'जाव तत्थ णं एगमेगे वालग्गे असंखेजाइ'मित्यादि, पूर्व वालाग्राणि सहजान्येव गृही तानि, अत्र त्वेकैकमसङ्ख्येयखण्डीकृतं गृह्यत इति भावः, एवं सत्येकैकखण्डस्य यन्मानं भवति तन्निरूपयितुमाह-ते णं वालग्गा दिट्ठीओगाहणाओं इत्यादि, 'तानि' खण्डीकृतवालाग्राणि प्रत्येकं दृष्ट्यवगाहनातः किम् ?-असङ्ख्येयभागमात्राणि, दृष्टिः-चक्षुारोत्पन्नदर्शनरूपा साऽवगाहते परिच्छेदद्वारेण प्रवर्तते यत्र वस्तुनि तदेव वस्तु दृष्ट्यवगाहना प्रोच्यते, ततोऽसख्येयभागवर्तीनि प्रत्येकं वालाग्रखण्डानि मन्तव्यानि, इदमुक्तं भवति-यत् पुद्गलद्रव्यं विशुद्धचक्षुदर्शनी छद्मस्थः पश्यति तदसख्येयभागमात्राण्येकैकशस्तानि भवन्ति, द्रव्यतो निरूप्याथ क्षेत्रतस्तन्मानमाह-सुहुमस्से'त्यादि, अयमत्र भावार्थ:-सूक्ष्मप-18॥१८२॥ नकजीवशरीरं यावति क्षेत्रेऽवगाहते ततोऽसङ्ख्येयगुणानि प्रत्येकं तानि भवन्ति, बादरपृथिवीकायिकपर्या Jain Education International For Private & Personel Use Only www.jainelibrary.org
SR No.600060
Book TitleAnuyogadwarasutram Uttarardham
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages546
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy