SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ अनुयो० मलधा वृत्तिः उपक्रमे रीया ॥१८॥ स चेह प्रस्तावाद्वक्ष्यमाणवालाग्राणां तत्खण्डानां वा प्रत्येक वर्षशतलक्षण उद्धारकालो गृह्यते, अथवा यो नारकाद्यायुःकालः प्रकृतपल्योपममेयत्वेन वक्ष्यते स एवोपादीयते, ततस्तत्प्रधानं पल्योपममद्धापल्योपमं, तथा क्षेत्रम्-आकाशं तदुद्धारप्रधानं पल्योपमं क्षेत्रपल्योपमम् । तत्राद्यं निरूपयितुमाह-से किं तं उद्धा- प्रमाणद्वारं रपलिओवमें'इत्यादि, उद्धारपल्योपमं द्विविधं प्रज्ञप्तं, तद्यथा-वालाग्राणां सूक्ष्मखण्डकरणात् सूक्ष्मं च तेषामेव सांव्यवहारिकप्रत्यक्षव्यवहारिभिर्गृह्यमाणानामखण्डानां यथावस्थितानां ग्रहणात् प्ररूपणामाव्यवहारोपयोगित्वाव्यावहारिकं चेति, तत्र यत् सूक्ष्मं तत् स्थाप्यं-तिष्ठतु तावद्, व्यावहारिकप्ररूपणापूर्वकत्वादेतत्परूपणायाः, पश्चात् प्ररूपयिष्यते इति भावः । तत्र यत्तद्व्यावहारिकमुद्धारपल्योपमं तदिदमिति शेषः, तदेव विवक्षुराह–से जहानामए' इत्यादि, तद्यथानाम धान्यपल्य इव पल्यः स्यात्, स च वृत्तवादायामविष्कम्भाभ्यां-दैर्ध्यविस्तराभ्यां प्रत्येकमुत्सेधानलक्रमनिष्पन्नं योजनं ऊर्ध्वमुच्चत्वेनापि तद्योजनं त्रिगुणं सविशेष 'परिक्खेवेणं भ्रमितिमङ्गीकृत्येति, सर्वस्यापि वृत्तपरिधेः किञ्चिन्यूनषड्भागाधिकत्रिगुणत्वादस्यापि पल्यस्य किञ्चिन्यूनषड्भागाधिकानि त्रीणि योजनानि परिधिर्भवतीत्यर्थः, स पल्यः 'एगाहियबेयाहियतेआहियत्ति षष्ठीबहुवचनलोपादेकाहिकद्याहिकत्र्याहिकानामुत्कर्षतः सप्तरात्रप्ररूढानां भृतो वालाग्रकोटीनामिति सम्बन्धः, तत्र मुण्डिते शिरस्येकेनाहा यावत्प्रमाण वालाग्रकोव्य उत्तिष्ठन्ति ता एकाहिक्या, द्वाभ्यां ॥११॥ १ऊर्ध्वारोहप्राधान्यान्नात्रात्मनेपदमिति सम्भावना. Jain Educat an all For Private & Personal Use Only LODiainelibrary.org
SR No.600060
Book TitleAnuyogadwarasutram Uttarardham
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages546
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy