________________
ACREASEARCOACCESGA
रसौ समितिः, तासां समागमेन-एकवस्तुनिर्वर्तनाय मीलनेन उपरितनपक्ष्मोत्पद्यते, समुदायवाचकत्वेनैकार्था| वा समुदयादयः, तस्मादसावुपरितनैकपक्षमच्छेदनकाल: समयो न भवति, कस्तर्हि समय इत्याह-एत्तोऽवि* अण'मित्यादि, एतस्माद् उपरितनैकपक्षमच्छेदनकालात् सूक्ष्मतरः समयः प्रज्ञप्तो हे! श्रमणायुष्मन्निति, अत्राहननु यद्यनन्तैः परमाणुसङ्घातैः पक्ष्म निष्पद्यते ते च साताः क्रमेण छिद्यन्ते, तडॅकस्मिन्नपि पक्ष्मणि विदार्यमाणे अनन्ताः समया लगेयुः, एतच्चागमेन सह विरुध्यते, तत्रासख्येयाखप्युत्सर्पिण्यवसर्पिणीषु समयासख्येयकस्यैव प्रतिपादनात्, यत उक्तम्-"असंखेज्जासु णं भंते! उस्सप्पिणिअवसप्पिणीसु केवईया स-13 मया पण्णत्ता?, गोयमा!, असंखेज्जा, अणंतासु णं भंते! उस्सप्पिणिअवसप्पिणीसु केवइया समया पण्णत्ता?, गोयमा!, अणंता" तदेतत्कथम् , अत्रोच्यते, अस्त्येतत्, किन्तु पाटनप्रवृत्तपुरुषप्रयत्नस्याचिन्त्यशक्तित्वात् प्रतिसमयमनन्तानां सङ्घातानां छेदः संपद्यते, एवं च सत्येकस्मिन् समये यावन्तः सङ्घाताश्छिद्यन्ते । तैरनन्तैरपि स्थूलतर एक एव सङ्घातो विवक्ष्यते, एवम्भूताः स्थूलतरसङ्घाता एकस्मिन्पक्ष्मणि असङ्ख्येया
एव भवन्ति, तेषां च क्रमेण छेदने असख्येयैः समयैः पक्ष्म छिद्यते, अतो न कश्चिद्विरोधः, इत्थं च विशे६षतः सूत्रे अनुक्तमप्यवश्यं प्रतिपत्तव्यम्, अन्यथा ग्रन्थान्तरैः सह विरोधप्रसङ्गात् सूत्राणां च सूचामात्र
१ असख्येयासु भदन्त : उत्सर्पिण्यवसर्पिणीषु कियन्तः समयाः प्रज्ञप्ताः? गौतम ! असडख्येयाः, अनन्तासु भदन्त ! उत्सर्पिण्यवसर्पिणीषु कियन्तः समयाः प्रज्ञप्ताः? गौतम! अनन्ताः.,
Jain Education
a
l
For Private
Personel Use Only
W
w.jainelibrary.org