________________
वृत्तिः
अनुयो मलधारीया
उपक्रमे प्रमाणद्वारं
॥१७८॥
AURANCE
त्वादिति, ततोऽसख्येयैरेव समयैर्यथोक्तपक्ष्मणो विदार्यमाणत्वाच्छद्मस्थानुभवविषयस्य च समयप्रसाधकस्य
विशिष्टक्रियाविशेषस्य कस्यचिद्दर्शयितुमशक्यत्वाद् 'एत्तोऽवि णं सुहुमतराए समए' इति सामान्येनैवो४क्तवानिति, एकस्मादुपरितनपक्षमच्छेदनकालादसख्याततमोऽशः समय इति स्थितं, युगपदनन्तसङ्घातविदा-1
रणहेतुपूर्वोक्तप्रयत्नविशेषसिद्धिश्च नगरादिपस्थितानवरतप्रवृत्तपुरुषादेः प्रयत्नविशेषात् प्रतिक्षणं बहुन्नभ:प्रदेशान् विलकुयाचिरेणैवेष्टदेशप्राप्तिर्भावनीया, यदि पुनरसौ क्रमेणैकैकं व्योमप्रदेशं लायेत् तदा असख्येयोत्सर्पिणीअवसर्पिणीभिरेवेष्टदेशं प्राप्नुयाद 'अंगुलसेढीमित्ते उस्सप्पिणीउ असंखेज्जा' इत्यादिवचनादिति | भावः, न चातीन्द्रियेष्वर्थेषु एकान्तेन युक्तिनिष्ठुर्भाव्यं, सर्वज्ञवचनप्रामाण्याद्, उक्तं च-"आगमश्चोपपत्तिश्च, सम्पूर्ण विद्धि लक्षणम् । अतीन्द्रियाणामर्थानां, सद्भावप्रतिपत्तये ॥१॥ आगमश्चाप्तवचनमाप्तं दोषक्षयाद्विदुः । वीतरागोऽनृतं वाक्यं, न यात्विसम्भवात् ॥२॥ उपपत्तिर्भवेद्युक्तिर्या सद्भावप्रसाधिका । साऽन्वयव्यतिरेकादिलक्षणा सूरिभिः कृता ॥३॥” इति, निदर्शितं चेहोभयमपीत्यलं विस्तरेण ।
असंखिज्जाणं समयाणं समुदयसमितिसमागमेणं सा एगा आवलिअत्ति वुच्चइ, संखेजाओआवलियाओ ऊसासो, संखिजाओ आवलिआओ नीसासो, हटुस्स अणवग१ प्राप्तिभावनयेति संभाव्यते. २ अङ्गुलमात्रश्रेणी उत्सर्पिण्योऽसङ्ख्येयाः.
॥१७८॥
Jain Education
a
l
For Private & Personel Use Only
(a
r.jainelibrary.org