SearchBrowseAboutContactDonate
Page Preview
Page 358
Loading...
Download File
Download File
Page Text
________________ AASA वृत्तिः अनुयो० मलधारीया ॥१७७॥ लोचितकारी मेधावी-सकृच्छृतदृष्टकर्मज्ञः निपुण-उपायारम्भकः निपुणशिल्पोपगतः-सूक्ष्मशिल्पसमन्वितः, एवंविधो ह्यल्पेनैव कालेन साटिकां पाटयतीति बहुविशेषणोपादानं, स इत्थम्भूत एका महतीं पटसाटिका उपक्रम पट्टसाटिकां वा पटसाटिकाया इयं श्लक्षणतरेति भेदेनोपादानं, गृहीत्वा 'सयराहमिति सकृत् झटिति कृत्वे- लप्रमाणद्वारं त्यर्थः, हस्तमात्रमपसारयेत्-पाटयेदित्यर्थः, तत्रैवं स्थिते प्रेरकः-शिष्यः प्रज्ञापयतीति प्रज्ञापको-गुरुस्तमेवमवादीत्, किम्?-येन कालेन तेन तुण्णागदारकेण तस्याः पटसाटिकायाः पट्टसाटिकाया वा सकृद्धस्तमात्रमपसारित-पाटितमसो समयो भवति?, प्रज्ञापक आह-नायमर्थः समर्थ:-नैतदेवमित्युक्तं भवति, कस्मादिति पृष्ट उपपत्तिमाह-यस्मात् सख्येयानां तन्तूनां समुदयसमितिसमागमेनेति पूर्ववंद, एकार्था वा सर्वेऽप्यमी समुदायवाचकाः, पटसाटिका निष्पद्यते, तत्र च 'उवरिल्लेत्ति उपरितने तन्तौ अच्छिन्ने-अविदारिते 'हेहिले'त्ति आधस्त्यतन्तुर्न छिद्यते, अतोऽन्यस्मिन् काले उपरितनस्तन्तुः छिद्यते अन्यस्मिन् काले आधस्त्यः, तस्मादसौ समयो न भवति, एवं वदन्तं प्रज्ञापकं प्रेरक एवमवादीत्-येन कालेन तेन तुन्नागदारकेण तस्याःपटसाटिकाया उपरितनस्तन्तुश्छिन्नः स समयः?, किं भवतीति शेषः, अत्र प्रज्ञापक आह-न भवतीति, क-18 स्मात्?, यस्मात्सङ्ख्येयानां 'पक्ष्मणां' लोके प्रतीतखरूपाणां समुदायेत्यादि सर्व तथैव यावत्तस्मादसौ समयो न भवति, एवं वदन्तं प्रज्ञापकमित्यायुपरितनपक्ष्मसूत्रमपि तथैव व्याख्येयं, नवरमनन्तानां परमाणूनां वि|शिष्टैकपरिणामापत्तिः सङ्घातः, तेषामनन्तानां यः समुदयः-संयोगस्तेषां समुदयानां या अन्योऽन्यानुगति C ARENCECRENCE Jain Education a l For Private 3 Personal Use Only H S .jainelibrary.org
SR No.600060
Book TitleAnuyogadwarasutram Uttarardham
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages546
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy