SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ वयस्त्वाभावात्, तस्य चासन्नमृत्युत्वेन विशिष्टसामर्थ्यानुपपत्तेः, विशिष्टसामर्थ्यप्रतिपादनार्थश्चायमारम्भः. अन्ये तु वर्णादिगुणोपचितोऽभिनवस्तरुण इति व्याचक्षते, बलं-सामर्थ्य तदस्यास्तीति बलवान् , युगं-सुषमदुष्षमादिकालः सोऽनुष्टो-निरुपद्रवो विशिष्टबलहेतुर्यस्यास्त्यसौ युगवान्, कालोपद्रवोऽपि सामर्थ्यविघ्नहेतुरितीत्थं विशेषणं, 'जुवाणोत्ति युवा-यौवनस्थः प्राप्तवया एष इत्येवम् अणति-व्यपदिशति लोको यमसौ निरुक्तिवशात् युवानः, बाल्यादिकालेऽपि दारकोऽभिधीयते अतो विशिष्टवयोऽवस्थापरिग्रहार्थमेतद्विशेषणम्, अल्पशब्दोऽभाववचनः, अल्प आतङ्को-रोगो यस्य स तथा, निरातङ्क इत्यर्थः, स्थिर:-प्रकृतपट पाटयतोऽकम्पोऽग्रहस्तो-हस्ताग्रं यस्य स तथा, दृढं पाणिपादं यस्य पाचौं पृष्ठ्यन्तरे च ऊरूच परिणते-परिनि|ष्ठिततां गते यस्य स तथा, सर्वावयवैरुत्तमसंहनन इत्यर्थः, 'तलयमलजुयलपरिघणिभबाह' तलौ-तालवृक्षौ तयोर्यमलं-समश्रेणीकं यद् युगलं-द्वयं परिघश्च-अर्गला तन्निभौ-तत्सदृशौ दीर्घसरलपीनत्वादिना बाहू | यस्य स तथा, आगन्तुकोपकरण सामर्थ्यमाह-'चर्मेष्टकाद्रुघणमुष्टिकसमाहतनिचितगात्रकायः' चर्मेष्टकया द्रुघणेन मुष्टिकेन च समाहतानि प्रतिदिनमभ्यासप्रवृत्तस्य निचितानि-निविडीकृतानि गात्राणि स्कन्धोरुपृष्ठादीनि यत्र स तथाविधः कायो-देहो यस्य स तथा, चर्मेष्टकादयश्च लोकप्रतीता एव, 'औरस्यबलसमन्वागत' आन्तरोत्साहवीर्ययुक्तः, व्यायामवत्तां दर्शयति-'लवनप्लवनजवनव्यायामसमर्थः' जवनशब्दः शीघवचनः, छेकः-प्रयोगज्ञः दक्षः-शीघ्रकारी प्राप्तार्थः-अधिकृत कर्मणि निष्ठां गतः, प्राज्ञ इत्यन्ये, कुशल:-आ Jain Education in For Private & Personel Use Only w ainelibrary.org
SR No.600060
Book TitleAnuyogadwarasutram Uttarardham
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages546
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy