SearchBrowseAboutContactDonate
Page Preview
Page 353
Loading...
Download File
Download File
Page Text
________________ प्रत्येक सप्तरज्जुप्रमाणो घनो जातः, एतच्च वैशाखस्थानस्थितपुरुषाकारं सर्वत्र वृत्तवरूपं च लोकं संस्थाप्य सर्व भावनीयं, सिद्धान्ते च यत्र कचिदविशेषितायाः श्रेण्याः सामान्येन ग्रहणं तत्र सर्वत्रास्य घनीकृतलोकस्य सम्बन्धिनी सप्तरज्जुप्रमाणा सा ग्राह्या, तथा प्रतरोऽप्येतावत्प्रमाण एव बोद्धव्यः, तदियं सप्तर-18 ज्ज्वायामत्वात् प्रमाणाङ्गलतोऽसख्येययोजनकोटिकोट्यायता एकप्रादेशिकी श्रेणिः, सा च तयैव गुणिता प्रतरः, सोऽपि यथोक्तश्रेण्या गुणितो लोकः, अयमपि सख्येयेन राशिना गुणितः सख्येया लोकाः, असङ्ख्येयेन तु राशिना समाहतोऽसङ्ख्येया लोकाः, अनन्तैश्च लोकैरलोकः, नन्वङ्गुलादिभिर्जीवाजीवादिवस्तूनि प्रमीयन्त इति तेषां प्रमाणता युक्ता, अलोकेन तु न किञ्चित्प्रमीयते इति कथं तस्य प्रमाणता?, उच्यते, यद्यपि बाह्यं वस्त्वनेन न प्रमीयते तथापि स्वस्वरूपं तेन प्रमीयत एव, तदभावे तद्विषयबुद्ध्यभावप्रसङ्गात्, तदेवम् 'अंगुलविहत्थिरयणी'त्यादि गाथा व्याख्याता। समाप्तं च क्षेत्रप्रमाणमिति ॥१३४ ॥ अथ कालप्रमा-12 णमुच्यते से किं तं कालप्पमाणे ?, २ दुविहे पण्णत्ते, तंजहा-पएसनिप्फण्णे अ विभागनिप्फण्णे अ (सू० १३५) ॥ से किं तं पएसणिप्फण्णे ?, २ एगसमयट्टिईए दुसमयट्टिईए तिसमयट्टिईए जाव दससमयट्टिईए असंखिज्जसमयट्टिईए, से तं पएसनिष्फण्णे (सू० अनु.३० Jan Education Inter For Private Personal use only elibrary.org
SR No.600060
Book TitleAnuyogadwarasutram Uttarardham
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages546
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy