________________
अनुयो० मलधारीया
॥१७२॥
निश्चयं तु सर्ववेदिनो विदन्तीति । तदेकैककोटिगतमुत्सेधाङ्गुलं श्रमणस्य भगवतो महावीरस्या ङ्गलं, कथ- वृत्तिः मिदम् ?, उच्यते, श्रीमहावीरस्य सप्तहस्तप्रमाणत्वादेकैकस्य च हस्तस्य चतुर्विशत्युत्सेधाङ्गुलमानत्वादष्टष- उपक्रमे ट्यधिकशताङ्गुलमानो भगवानुत्सेधाङ्गुलेन सिद्धो भवति, स एव चात्माङ्गुलेन मतान्तरमाश्रित्य खहस्तेन प्रमाणद्वार सार्द्धहस्तत्रयमानत्वाच्चतुरशीत्यङ्गुलमानो गीयते, अतः सामर्थ्यादेकमुत्सेधाङ्गुलं श्रीमन्महावीरात्मामुलापेक्षया अर्धाङ्गुलमेव भवति, येषां तु मतेन भगवानात्माङ्गुलेनाष्टोत्तरशताङ्गुलमानः खहस्तेन सार्द्धहस्तचतुष्टयमानत्वात् तन्मतेन भगवत एकस्मिन्नात्माङ्गुले-एकमुत्सेधाङ्गुलं तस्य च पञ्च नवमभागा भवन्ति, अष्ट-3 षष्ट्यधिकशतस्याष्टोत्तरशतेन भागापहारे एतावत एव भावात्, यन्मतेन तु भगवान्विशत्यधिकमङ्गुलशतं वहस्तेन पञ्चहस्तमानत्वात्, तन्मतेन भगवत एकस्मिन्नात्माङ्गुल एकमुत्सेधाङ्गुलं तस्य च द्वौ पञ्चभागौ भवतः,४ अष्टषष्ट्यधिकशतस्य विंशत्यधिकशतेन भागे हृते इयत एव लाभात्, तदेवमिहाद्यमतमपेक्ष्यैकमुत्सेधाडलं, भगवदात्माङ्गुलस्याईरूपतया प्रोक्तमित्यवसेयमिति । तदुच्छ्रयाङ्गुलं सहस्रगुणितं प्रमाणाङ्गुलं भवति, कथ-17 मिदमवसीयते ?, उच्यते, भरतश्चक्रवर्ती प्रमाणाङ्गुलेनात्माङ्गुलेन च किल विंशतिशतमङ्गुलानां भवति, भरतात्माङ्गुलस्य प्रमाणाङ्गुलस्य चैकरूपत्वात्, उत्सेधाङ्गुलेन तु पञ्चधनुःशतमानत्वात् प्रतिधनुश्च षण्णवत्यङ्गुलसद्भावाद् अष्टचत्वारिंशत् सहस्राण्यङ्गुलानां संपद्यते, अतः सामर्थ्यादेकस्मिन् प्रमाणाङ्गुले चत्वारि शतान्यु
॥१७२॥ त्सेधाङ्गुलानां भवन्ति, विंशत्यधिकशतेन अष्टचत्वारिंशत्सहस्राणां भागापहारे एतावतो लाभात्,
Jain Education
For Private
Personel Use Only
Mainelibrary.org