SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ तुरोऽपि चक्रेण वर्तयति-पालयतीति चतुरन्तचक्रवर्ती तस्य-परिपूर्णषट्खण्डभरतभोक्तुरित्यर्थः, चत्वारि मधुरतृणफ़लान्येकः श्वेतसर्षपः, षोडश सर्षपा एकं धान्यमाषफलं, द्वे धान्यमाषफले एका गुञ्जा, पञ्च गुजा एकः कर्ममाषकः, षोडश कर्ममाषका एकः सुवर्णः, एतैरष्टभिः काकणीरत्नं निष्पद्यते, एतानि च मधुरतृणफलादीनि भरतचक्रवर्तिकालसम्भवीन्येव गृह्यन्ते, अन्यथा कालभेदेन तद्वैषम्यसम्भवे काकिणीरत्नं सर्वचक्रिणां तुल्यं न स्यात्, तुल्यं चेष्यते तदिति, चत्वारि चतसृष्वपि दिक्षु द्वे ऊर्ध्वाध इत्येवं षट् तलानि यत्र तत् षट्तलम् , अध उपरि पार्श्वतश्च प्रत्येक चतसृणामस्रीणां भावात् द्वादश अस्रया-कोट्यो यत्र तबादशाश्रिकं, कर्णिका:-कोणास्तेषां चाध उपरि च प्रत्येकं चतुर्णा सद्भावाष्टकर्णिकम् , अधिकरणिः-सुवर्णकारोपकरणं तत्संस्थानेन संस्थितं-तत्सदृशाकारं समचतुरस्रमिति यावत् प्रज्ञप्त-प्ररूपितं, तस्य काकिणीरत्नस्यैकैका कोटिरुत्सेधाङ्गुलप्रमाणविष्कम्भा द्वादशाप्यश्रय एकैकस्य उत्सेधाङ्गुलप्रमाणा भवतीत्यर्थः, अस्य समचतुरस्रत्वादायामो विष्कम्भश्च प्रत्येकमुत्सेधाङ्गुलप्रमाण इत्युक्तं भवति, यैव च कोटिरूवीकृत्य आयामं प्रतिपद्यते सैव तिर्यक व्यवस्थापिता विष्कम्भभागो भवतीत्यायामविष्कम्भयोरेकतरनिर्णयेऽप्यपरनिश्चयः स्यादेवेति सूत्रे विष्कम्भस्यैव ग्रहणं, तहणे चायामोऽपि गृहीत एव, समचतुरस्रत्वात्तस्येति । तदेवं सर्वत उत्सेधाङ्गुलप्रमाणमिदं सिद्धं, यच्चान्यत्र-'चउरंगुलप्पमाणा सुवण्णवरकागणी नेयेति श्रूयते, तन्मतान्तरं संभाव्यते, १ चतुरङ्गुलप्रमाणा सुवर्णवरकाकिणी ज्ञेया. Jain Education a l For Private & Personel Use Only D ainelibrary.org
SR No.600060
Book TitleAnuyogadwarasutram Uttarardham
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages546
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy