________________
मितं परिजितं नामसमं घोससमं अहीणक्खरं अणञ्चक्खरं अव्वाइद्धक्खरं अक्खलिअं अमिलिअं अवच्चामेलियं पडिपुण्णं पडिपुण्णघोसं कंठोडविप्पमुकं गुरुवायणोवगयं, से णं तत्थ वायणाए पुच्छणाए परिअट्टणाए धम्मकहाए नो अणुपेहाए, कम्हा? 'अणुवओगो दवमितिक? (सू० १३) अथ किं तदागमतो द्रव्यावश्यकमिति, आह-आगमतो दवावस्सयं जस्स णमित्यादि 'ण'मिति | पूर्ववत्, 'जस्स'त्ति यस्य कस्यचित् 'आवस्सएत्तिपयंति आवश्यकपदाभिधेयं शास्त्रमित्यर्थः, ततश्च यस्य कस्यचिदावश्यकशास्त्रं शिक्षितं स्थितं जितं यावत् वाचनोपगतं भवति, ‘से णं तत्थे ति स-जन्तुस्तत्रआवश्यकशास्त्रे वाचनाप्रच्छनापरिवर्तनाधर्मकथाभिर्वर्तमानोऽप्यावश्यकोपयोगे अवर्तमान आगमतः' आगममाश्रित्य द्रव्यावश्यकमिति समुदायार्थः । अत्राह-नन्वागममाश्रित्य द्रव्यावश्यकमित्यागमरूपमिदं द्रव्यावश्यकमित्युक्तं भवति, एतच्चायुक्तं, यत आगमो ज्ञानं, ज्ञानं च भाव एवेति कथमस्य द्रव्यत्वमुपपद्यते?, सत्यमेतत्, किन्वागमस्य कारणमात्मा तद्धिष्ठितो देहः शब्दश्वोपयोगशून्यसूत्रोच्चारणरूप इहास्ति, न तु साक्षादागमः, एतच्च त्रितयमागमकारणत्वात्कारणे कार्योपचारादागम उच्यते, कारणं च विवक्षितभावस्य द्रव्यमेव भवतीत्युक्तमेवेत्यदोषः। तत्रादित आरभ्य पठनक्रियया यावदन्तं नीतं तच्छि
SHRSHASRA
NS
Jain Education
a
l
For Private sPersonal use Only
mw.jainelibrary.org