SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ वृत्तिः अनुयो० मलधारीया ॥१४॥ अनुयो. अधिक वस्त्वित्यर्थः, द्रव्यं च तदावश्यकं च द्रव्यावश्यकम्, अनुभूतावश्यकपरिणाममनुभविष्यदावश्यकपरिणामं वा साधुदेहादीत्यर्थः । द्रव्यलक्षणं च सामान्यत इदम्-'भूतस्य भाविनो वा भावस्य हि कारणं तु यल्लोके । तत् द्रव्यं तत्त्वज्ञैः सचेतनाचेतनं कथितम् ॥१॥' व्याख्या-तद् द्रव्यं तत्त्वज्ञैः कथितं, यत्कथंभूतमित्याह-यत्कारणं-हेतुः, कस्येत्याह-'भावस्य पर्यायस्य, कथंभूतस्येत्याह-'भूतस्य' अतीतस्य 'भाविनो वा' भविष्यतो वा, 'लोके' आधारभूते, तच सचेतनं-पुरुषादि अचेतनं च-काष्ठादि भवति, एतदुक्तं भवति-यः पूर्व स्वर्गादि-| |विन्द्रादित्वेन भूत्वा इदानीं मनुष्यादित्वेन परिणतः सोऽतीतस्येन्द्रादिपर्यायस्य कारणत्वात्साम्प्रतमपि द्रव्यत इन्द्रादिरभिधीयते, अमात्यादिपदपरिभ्रष्टामात्यादिवत्, तथा अग्रेऽपि य इन्द्रादित्वेनोत्पत्स्यते स इदानीमपि भविष्यदिन्द्रादिपदपर्यायकारणत्वात् द्रव्यत इन्द्रादिरभिधीयते, भविष्यद्राजकुमारराजवत्, एवमचेतनस्यापि काष्ठादेर्भूतभविष्यत्पर्यायकारणत्वेन द्रव्यता भावनीयेत्यार्यार्थः ॥१॥ इतः प्रकृतमुच्यते-तचेह द्रव्यरूपमावश्यकं प्रकृतं, तत्रावश्यकोपयोगाधिष्ठितः साध्वादिदेहो वन्दनकादिसूत्रोचारणलक्षणश्चागमः आवादिका क्रिया चावश्यकमुच्यते, आवश्यकोपयोगशून्यास्तु ता एव देहागमक्रिया द्रव्यावश्यक, तच विविध प्रज्ञप्तमिति, तद्यथा-'आगमतः' आगममाश्रित्य 'नोआगमतः' नोआगममाश्रित्य, नोआगमशब्दार्थ | यथावसरमेव वक्ष्यामः, चशब्दौ द्वयोरपिस्वखविषये तुल्यप्राधान्यख्यापनार्थी ॥१२॥ अत्राद्यभेदजिज्ञासुराह से किं तं आगमओ दव्वावस्सयं?,२जस्स णं आवस्सएत्ति पदं सिक्खितं ठितं जितं ॥१४॥ Jain Education Intel For Private & Personel Use Only Linelibrary.org
SR No.600060
Book TitleAnuyogadwarasutram Uttarardham
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages546
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy