SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ OSAUGAGASC पना स्वावश्यकत्वेन योऽक्षः स्थापितः स क्षणान्तरे पुनरपि तथाविधप्रयोजनसम्भवे इन्द्रत्वेन स्थाप्यते, पुनरपि च राजादित्वेनेत्यल्पकालवर्तिनी, शाश्वतप्रतिमादिरूपा तु यावत्कथिका वर्त्तते, तस्याश्चाहदादिरूपेण सर्वदा तिष्ठतीति स्थापनेति व्युत्पत्तेः स्थापनात्वमवसेयं, न तु स्थाप्यत इति स्थापना, शाश्वतत्वेन केनापि स्थाप्यमानत्वाभावादिति, तस्माद्भावशून्यद्रव्याधारसाम्येऽप्यस्त्यनयोः कालकृतो विशेषः । अत्राह-ननु यथा स्थापना काचिदल्पकालीना तथा नामापि किञ्चिदल्पकालीनमेव, गोपालदारकादौ विद्यमानेऽपि कदाचिनेकनामपरावृत्तिदर्शनादू, सत्यं, किन्तु प्रायो नाम यावत्कथिकमेव, यस्तु कचिदन्यथोपलम्भः सोऽल्पत्वान्नेह विवक्षित इत्यदोषः । उपलक्षणमात्रं चेदं कालभेदेनैतयोर्भेदकथनम्, अपरस्यापि बहुप्रकारभेदस्य सम्भवात्, त| थाहि-यथेन्द्रादिप्रतिमास्थापनायां कुण्डलाङ्गदादिभूषितः सन्निहितशचीवज्रादिराकार उपलभ्यते न तथा ना| मेन्द्रादी, एवं यथा तत्स्थापनादर्शनाद् भावः समुल्लसति नैवमिन्द्रादिश्रवणमात्राद्, यथा च तत्स्थापनायां लोकस्योपयाचितेच्छापूजाप्रवृत्तिसमीहितलाभायो दृश्यन्ते नैवं नामेन्द्रादावित्येवमन्यदपि वाच्यमिति ॥ ११ ॥ उक्तं स्थापनावश्यकम्, इदानीं द्रव्यावश्यकनिरूपणाय प्रश्नं कारयति| से किं तं दव्वावस्सयं?, २ दुविहं पण्णत्तं, तंजहा-आगमओ अ नोआगमओ अ (सू०१२) । अथ किं तत् द्रव्यावश्यकमिति पृष्टे सत्याह-व्वावस्सयं दुविहमित्यादि तत्र द्रवति-गच्छति ताँस्तान्पर्यायानिति द्रव्यं-विवक्षितयोरतीतभविष्यद्भावयोः कारणम्, अनुभूतविवक्षितभावमनुभविष्यद्विवक्षतभावं वा A RASAASAAN Jain Eduetan For Private & Personal Use Only Paniloniainelibrary.org
SR No.600060
Book TitleAnuyogadwarasutram Uttarardham
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages546
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy