SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ अनुयो० मलधारीया वृत्तिः अनुयोग अधि० ॥१३॥ 'वराटक' कपर्दकः, अत्र वाचनान्तरे अन्यान्यपि दन्तकर्मादिपदानि दृश्यन्ते तान्यप्युक्तानुसारतो भावनीयानि, वाशब्दाः पक्षान्तरसूचकाः, यथासम्भवमेवमन्यत्रापि, एतेषु काष्ठकर्मादिषु आवश्यकक्रियां कुर्वन्तः एकादिसाध्वादयः सद्भावस्थापनया असद्भावस्थापनया वा स्थाप्यमानाः स्थापनावश्यकं, तत्र काष्ठकर्मादिष्वाकारवती सद्भावस्थापना, साध्वाद्याकारस्य तत्र सद्भावात्, अक्षादिषु त्वनाकारवती असद्भावस्थापना, साध्वाद्याकारस्य तत्रासद्भावादिति, निगमयन्नाह-'सेतमित्यादि' तदेतत् स्थापनावश्यकमित्यर्थः॥१०॥ अत्र नामस्थापनयोरभेदं पश्यन्निदमाह|नामटवणाणं को पइविसेसो?, णामं आवकहिअं, ठवणा इत्तरिआ वा होजा आवकहिआ वा (सू० ११) । नामस्थापनयोः कः प्रतिविशेषो?, न कश्चिदित्यभिप्रायः, तथाहि-आवश्यकादिभावार्थशून्ये गोपालदारदू कादौ द्रव्यमाने यथा आवश्यकादि नाम क्रियते, तत्स्थापनापि तथैव तच्छ्न्ये काष्ठकर्मादौ द्रव्यमाने क्रियते,8 अतो भावशून्ये द्रव्यमाने क्रियमाणत्वाविशेषान्नानयोः कश्चिद्विशेषः, अत्रोत्तरमाह-नामं आवकहियमित्यादि' नाम यावत्कथिकं-खाश्रयद्रव्यस्यास्तित्वकथां यावदनुवर्तते, न पुनरन्तराऽप्युपरमते(ति), स्थापना पुनरित्वरा-खल्पकालभाविनी वा स्याद्यावत्कथिका वा, खाश्रयद्रव्ये अवतिष्ठमानेऽपि काचिदन्तराऽपि निवर्तते काचित्तु तत्सत्तां यावदवतिष्ठत इतिभावः, तथाहि-नाम आवश्यकादिकं मेरुजम्बूद्वीपकलिङ्गमगधसुराष्ट्रादिकं वा यावत् खाश्रयो गोपालदारकदेहादिः शिलासमुच्चयादिा समस्ति तावद्वतिष्ठत इति तद्यावत्कथिकमेव, स्था MESSSSSSSSSSS ॥१३॥ Jain Educatio n al For Private & Personel Use Only Nuw.jainelibrary.org
SR No.600060
Book TitleAnuyogadwarasutram Uttarardham
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages546
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy