SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ अनु. ३ Jain Education Inter तदल्पकालम्-इत्वरकालमित्यर्थः, चशब्दाद्यावत्कथिकं च शाश्वतप्रतिमादि, यत्पुनर्भावेन्द्राद्यर्थरहितं साकारमनाकारं वा तदर्थाभिप्रायेण क्रियते तत् स्थापनेति तात्पर्यमित्यार्यार्थः ॥ १ ॥ इदानीं प्रकृतमुच्यते- 'जं णं' ति 'ण' मिति वाक्यालङ्कारे, यत्काष्ठकर्मणि वा चित्रकर्म्मणि वा वराटके वा एको वा अनेको वा सद्भावस्थापनया वा असद्भावस्थापनया वा 'आवस्सएत्ति' आवश्यकतद्वतोरभेदोपचारात्तद्वानिह गृह्यते, ततश्चैको वा अनेको वा कथंभूताः अत उच्यते-आवश्यकक्रियावानावश्यकक्रियावन्तो वा 'ठवणा ठविजइत्ति' स्थापनारूपं स्थाप्यते क्रियते, आवृत्त्या बहुवचनान्तत्वे स्थापनारूपाः स्थाप्यन्ते - क्रियन्ते, तत् स्थापनावश्यकमित्या| दिपदेन सम्बन्ध इति समुदायार्थः । काष्ठकर्मादिष्वावश्यकत्रियां कुर्वन्तो यत् स्थापनारूपाः साध्वादयः स्थाप्यन्ते तत् स्थापनावश्यकमिति तात्पर्यम्। अधुना अवयवार्थ उच्यते तत्र क्रियत इति कर्म काष्ठे कर्म काष्ठकर्म-काष्ठनिकुट्टितं रूपकमित्यर्थः, 'चित्रकर्म' चित्रलिखितं रूपकं 'पोत्थकम्मे व'त्ति अत्र पोत्थं पोतं वस्त्रमित्यर्थः, तत्र कर्म्म-तत्पल्लव निष्पन्नं धीउल्लिकारूपकमित्यर्थः, अथवा पोत्थं- पुस्तकं तच्चेह संपुटकरूपं गृह्यते, तत्र कर्मतन्मध्ये वर्त्तिकालिखितं रूपकमित्यर्थः, अथवा पोत्थं ताडपत्रादि तत्र कर्म्म- तच्छेदनिष्पन्नं रूपकं, 'लेप्यकर्म' लेप्यरूपकं, 'ग्रन्थिमं' कौशलातिशयाद् ग्रन्थिसमुदायनिष्पादितं रूपकं, 'वेष्टिमं' पुष्पवेष्टनक्रमेण निष्पन्नमानन्दपुरादिप्रतीतरूपम्, अथवा एकं व्यादीनि वा वस्त्राणि वेष्टयन् कश्चित् रूपकं उत्थापयति तद्वेष्टिमं, 'पूरिमं भरिमं पित्तलादिमयप्रतिमावत् 'संघातिमं' बहुवस्त्रादिखण्डसंघात निष्पन्नं कञ्चुकवत्, 'अक्षः' चन्दनको For Private & Personal Use Only Mainelibrary.org
SR No.600060
Book TitleAnuyogadwarasutram Uttarardham
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages546
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy