SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ अनुयो० मलधा रीया ॥ १५ ॥ Jain Educatio क्षितमुच्यते, तदेवाविस्मरणतश्चेतसि स्थितं स्थितत्वात् स्थितमप्रच्युतमित्यर्थः, परावर्त्तनं कुर्व्वतः परेण वा कचित् पृष्टस्य यच्छीघ्रमागच्छति तज्जितं, विज्ञातश्लोकपदवर्णादिसंख्यं मितं, परि-समन्तात्सर्व्वप्रकारैर्जितं परिजितं परावर्त्तनं कुर्व्वतो यत्क्रमेणोत्क्रमेण वा समागच्छतीत्यर्थः, नाम अभिधानं तेन समं नामसमम्, इदमुक्तं भवति यथा खनाम कस्यचिच्छिक्षितं जितं मितं परिजितं भवति तथैतदपीत्यर्थः, घोषा - उदात्तादयः तैर्वाचनाचार्याभिहितघोषैः समं घोषसमं, यथा गुरुणा अभिहिता घोषास्तथा शिष्योऽपि यत्र शिक्षते तत् घोषसममिति भावः, एकद्व्यादिभिरक्षरैर्हीनं हीनाक्षरं न तथा अहीनाक्षरम्, एकादिभिरक्षरैरधिकमत्यक्षरं न तथा अनत्यक्षरम्, 'अव्वाइद्धक्खरं'ति विपर्यस्तरत्नमालागतरत्नानीव व्याविद्धानि विपर्यस्तान्यक्षराणि यत्र तयाविद्वाक्षरं न तथाऽव्याविद्धाक्षरं 'अच्वाइद्ध' मिति कचित्पाठः, तत्रापि व्याविद्धाक्षरयोगाद्व्याविद्धं न तथाऽव्याविद्धम्, उपलशकलाद्याकुलभूभागे लाङ्गलमिव स्खलति यत्तत् स्खलितं न तथाऽस्खलितम्, अनेकशास्त्रसम्बन्धीनि सूत्राण्येकत्र मीलयित्वा यत्र पठति तत् मिलितमसदृशधान्यमेलकवत्, अथवा परावर्त्त|मानस्य यत्र पदादिविच्छेदो न प्रतीयते तन्मीलितं न तथाऽमीलितम्, एकस्मिन्नेव शास्त्रेऽन्यान्यस्थाननिवडान्येकार्थानि सूत्राण्येकत्र स्थाने समानीय पठतो व्यत्याम्रेडितम्, अथवा आचारादिसूत्रमध्ये स्वमतिचर्चितानि तत्सदृशानि सूत्राणि कृत्वा प्रक्षिपतो व्यत्याम्रेडितम्, अस्थानविरतिकं वा व्यत्याम्रेडितं न तथाऽव्यत्याम्रेडितं, सूत्रतो बिन्दुमात्रादिभिरनूनमर्थतस्त्वध्याहाराकाङ्क्षादिरहितं प्रतिपूर्णम्, उदात्तादिघोषैरविकलं For Private & Personal Use Only वृत्तिः अनुयो० अधि० ॥ १५ ॥ www.jainelibrary.org
SR No.600060
Book TitleAnuyogadwarasutram Uttarardham
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages546
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy