________________
कटपिटकशूर्पादिकं, शेषं तु यदिह कचित्किञ्चिन्न व्याख्यातं तत्सुगमत्वादिति मन्तव्यं । तदेवमात्माङ्गुलेनात्मीयात्मीयकालसम्भवीनि वस्तुन्यद्यकालीनानि च योजनानि मीयन्ते, ये यत्र काले पुरुषा भवन्ति तद|पेक्षयाऽद्यशब्दो द्रष्टव्यः॥ इदं चात्माङ्गलं सूच्यङ्गलादिभेदात् त्रिविधं, तत्र दैयेणाङ्गलायता बाहल्यतस्त्वेकप्रादेशिकी नभप्रदेशश्रेणिः सूच्यङ्गुलमुच्यते, एतच्च सद्भावतोऽसङ्ख्येयप्रदेशमप्यसत्कल्पनया सूच्याकारव्यव-| स्थापितप्रदेशत्रयनिष्पन्नं द्रष्टव्यं, तद्यथा ०००, सूची सूच्यैव गुणिता प्रतराङ्गलम् , इदमपि परमार्थतोऽसख्येयप्रदेशात्मकम् , असद्भावतस्त्वेषैवानन्तरदर्शिता त्रिप्रदेशात्मिका सूचिस्तयैव गुण्यते, अतः प्रत्येक प्रदेशत्रयनिष्पन्नसूचीत्रयात्मकं नवप्रदेशसख्यं संपद्यते, स्थापना::, प्रतरश्च सूच्या गुणितो दैर्येण विष्कम्भतः |पिण्डतश्च समसङ्ख्यं घनाङ्गलं भवति, दैयादिषु त्रिष्वपि स्थानेषु समतालक्षणस्यैव समयचर्यया घन|स्वेह रूढत्वात्, प्रतराङ्गुलं तु दैय॑विष्कम्भाश्यामेव समं, न पिण्डतः, तस्यैकप्रदेशमात्रत्वादिति भावः, इदमपि वस्तुवृत्त्याऽसङ्ख्येयप्रदेशमानम् असत्प्ररूपणया तु सतविंशतिप्रदेशात्मकं, पूर्वोक्तसूच्या अनन्तरोक्तनवप्रदेशात्मके प्रतरे गुणिते एतावतामेव प्रदेशानां भावाद, एषां च स्थापना अनन्तरनिर्दिष्टनवप्रदेशात्मकपतरस्याध उपरि च नव नव प्रदेशान् दत्त्वा भावनीया, तथा च दैय॑विष्कम्भपिण्डैस्तुल्यमिदमापद्यते। 'एएसि णं भंते' इत्यादिना सूच्यङ्गुलादिप्रदेशानामल्पबहुत्वचिन्ता यथानिर्दिष्टव्याख्यानुसारतः सुखा*बसेयैव, तदेतदात्माङ्गुलमिति । अथोत्सेधानलनिर्णयार्थमाह
ख्यं धनाङ्गलदेशसङ्ख्यं संपयते, स्यादेशात्मिका सूचिस्तीवर इ.
* नवप्रदेशान्तरदर्शिता सच्यैव गुणित यमदेशमप्यसलायता व
XXAAAAAAAAAA%%
Jain Education Interion
For Private & Personal Use Only
www.jainelibrary.org