________________
'अनुयो० मलधारीया
वृत्तिः उपक्रमे
प्रमाणद्वार
॥१५९॥
SAMOSTAA SAA RAUX
परिखा प्राकारोपरि आश्रयविशेषाः अहालकाः गृहाणा प्राकारस्य चान्तरे अष्टहस्तविस्तारो हस्त्यादिसञ्चारमार्गश्चरिका प्रतोलीद्वाराणां परस्परतोऽन्तराणि गोपुराणि राजानां देवतानां च भवनानि प्रासादाः उत्सेधबहुला वा प्रासादाः गृहाणि सामान्यजनानां सामान्यानि वा, शरणानि तृणमयावसरिकादीनि लयनानि-उत्कीर्णपर्वतगृहाणि गिरिगुहा वा कार्पटिकाद्यावासस्थानं वा आपणा-हदाः नानाहगृहाध्यासितस्त्रिकोणो भूभागविशेषः शृङ्गाटकं, स्थापना त्रिपथसमागमो वा शृङ्गाटकं त्रिकं तु त्रिपथसमागम एव तथा प्रभूतगृहाश्रयश्चतुरस्रो भूभागश्चतुष्कं यथा(द्वा) चतुष्पथसमागमो वा चतुष्क, चत्वरं चतुष्पथसमागम एव, षट्पथसमागमो वा चत्वरं, चतुर्मुखदेवकुलिकादि चतुर्मुखं महान राजमार्गों महापथः इतरे पन्थानः देव-| कुलसभादीनि पदानि क्वचिद्वाचनाविशेषे अत्रैवान्तरे दृश्यन्ते, शकट-गडकादि रथो द्विधा-यानरथः सङ्ग्रामरथश्च, तत्र सङ्घामरथस्योपरि प्राकारानुकारिणी कटीप्रमाणा फलकमयी वेदिका क्रियते, अपरस्य त्वसौ न भवतीति विशेषः, यानं-गव्यादि जुग्गत्ति-गोल्लविषयप्रसिद्धं द्विहस्तप्रमाणं चतुरस्रवेदिकोपशोभितं जम्पानं, गिल्लित्ति-हस्तिन उपरि कोल्लररूपा या मानुषं गिलतीव, थिल्लित्ति-लाटानां यदडपल्लाणं रूढं तदन्यविषयेषु थिल्लीत्युच्यते सीयत्ति-शिक्षिका कटाकाराच्छादितो जम्पानविशेष: 'संदमाणिय'त्ति पुरुषप्रमाणायामो जम्पानविशेष एव लोहित्ति-लोही मण्डनकादिपचनिका कविल्ली लोहकडाहित्ति-लोहमयं बृहत्कडिल्लं भाण्डं-मृन्मयादिभाजनं मात्र:-कांश(स्य)भाजनाद्युपकरणमात्राया आधारविशेषः उपकरणं खनेकविधं
SARKAR
SEOSEGO
॥१५९॥
JainEducation intHA
For Private Personal use only
Finelibrary.org