SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ 55 लाणं कयरे कयरेहितो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा?, सव्वथोवे सूइअंगुले, पयरंगुले असंखेजगुणे, घणंगुले असंखिजगुणे, से तं आयंगुले। गतार्थ, नवरं ये यदा मनुष्या भवन्ति तेषां तदा आत्मनोऽङ्गलेन स्वकीयखकीयकालसम्भवीन्यवटहदादीनि मीयन्त इति सण्टङ्कः, तत्र अवट:-कूपः तडागः-खानितो जलाशयविशेषः वाप्यः-चतुरस्रा जलाशय|विशेषाः, पुष्करिण्यो-वृत्तास्ता एव पुष्करवन्त्यो वा दीर्घिकाः-सारिण्यः सारिण्य एव वक्रा गुञ्जालिका: भण्यन्ते सरः-खयंसम्भूतो जलाशयविशेष एव सरपंतियाउत्ति-पतिभिर्व्यवस्थापितानि सरांसि सर:पतयः सरसरपंतियाउत्ति-यासु सरस्पतिष्वेकस्मात्सरसोऽन्यत्र ततोऽपि अन्यत्र कपाटसञ्चारकेनोदकं संचरति ताः सरासरःपतयः बिलपतयः प्रतीताः माधवीलतादिषु दम्पत्यादीनि येष्वारमन्ति-क्रीडन्ति ते आरामाः पुष्पफलादिसमृद्धानेकवृक्षसङ्कुलान्युत्सवादी बहुजनपरिभोग्यान्युद्यानानि सामान्यवृक्षजातियुक्तानि नगराध्यवर्तीनि काननानि, अथवा स्त्रीणां पुरुषाणां वा केवलानां परिभोग्यानि काननानि, यदिवा येभ्यः परतो भूधरोष्टवी वा तानि सर्वेभ्योऽपि वनेभ्यः पर्यन्तवर्तीनि काननानि, शीर्णवृक्षकलितानि वा काननानि, एकजातीयवृक्षाकीर्णानि वनानि, अनेकजातीयैरुत्तमैश्च पादपैराकीर्णानि वनखण्डानि, एकजातीयानामितरेषां वा तरूणां पङ्कयो वनराजयः, सन्तो भजन्त्येतामिति सभा-पुस्तकवाचनभूमिबहुजनसमागमस्थानं वा अध उपरि च समखातरूपा खातिका अधः सङ्कीर्णोपरि विस्तीर्णा खातरूपा तु 5 453 Jain Education a l For Private & Personal Use Only jainelibrary.org
SR No.600060
Book TitleAnuyogadwarasutram Uttarardham
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages546
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy