SearchBrowseAboutContactDonate
Page Preview
Page 319
Loading...
Download File
Download File
Page Text
________________ SORRECSAMASURASOAS गुलेनैवोत्तममध्यमाधमपुरुषाणां प्रमाणमाह-हुंति पुण' गाहा, भवन्ति पुनरधिकपुरुषा-उत्तमपुरुषाश्चक्रवादयः अष्टशतमङ्गुलम् उविद्धा-उन्मिता उच्चैस्त्वेन वा, पुनःशब्दस्त्वेषामेवाधिकपुरुषादीनामनेकभे|दतादर्शकः, आत्माङ्गुलेनैव षण्णवत्यङ्गुलान्यधमपुरुषा भवन्ति, 'चउरुत्तर मज्झमिल्ला उत्ति तेनैवाङ्गलेन चतु-16 रुत्तरमङ्गुलशतं मध्यमाः, तुशब्दो यथानुरूपशेषलक्षणादिभावप्रतिपादनपर इति गाथार्थः ॥ ये अष्टोत्तरशताकुलमानाद्धीना अधिका वा ते किं भवन्तीत्याह-हीणा वा' गाहा, अष्टोत्तरशताङ्गुलमानात् हीना वा 8. अधिका वा ये खलु खर:-सकलजनादेयत्वप्रकृतिगम्भीरतादिगुणालङ्कतो ध्वनिः सत्त्वं-दैन्यविनिर्मुक्तो मानसोऽवष्टम्भः सार:-शुभपुद्गलोपचयजः शारीरः शक्तिविशेषः तैः परिहीनाः सन्तस्ते उत्तमपुरुषाणाम्उपचितपुण्यप्रारभाराणाम् अवशा-अनिच्छन्तोऽप्यशुभकर्मवशतः प्रेष्यत्वमुपयान्ति, स्वरादिशेषलक्षणवैकल्यसहायं च यथोक्तप्रमाणाद्धीनाधिक्यमनिष्टफलप्रदायि प्रतिपत्तव्यं, न केवलमिति लक्ष्यते, भरतचक्रवादीनां खाकुलतो विंशत्यधिकाङ्गुलशतप्रमाणानामपि निर्णीतत्वात्, महावीरादीनां च केषाश्चिन्मतेन चतुरशीत्याद्यङ्गुलप्रमाणत्वाद्, भवन्ति च विशिष्टाः खरादयः प्रधानफलदायिनो, यत उक्तम्-"अस्थिष्वर्थाः सुखं मांसे, त्वचि भोगाः स्त्रियोऽक्षिषु । गतौ यानं खरे चाज्ञा, सर्व सत्त्वे प्रतिष्ठितम् ॥१॥” इति गाथार्थः ॥ एतेनाङ्गलप्रमाणेन षडङ्गलानि पादः, पादस्य मध्यतलप्रदेशः षडङ्गलविस्तीर्णः, पादैकदेशत्वात् पादः, द्वी च युग्मीकृतौ पादौ वितस्तिः, द्वे च वितस्ती रनिः, हस्त इत्यर्थः, रनिद्वयं कुक्षिा, प्रत्येकं कुक्षिद्वयनिष्पन्नास्तु 564 Jain Education a l For Private & Personal Use Only www.jainelibrary.org
SR No.600060
Book TitleAnuyogadwarasutram Uttarardham
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages546
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy