________________
अनुयो
मलधारीया
॥१५७॥
आत्माङ्गुलम् उत्सेधाङ्गुलं प्रमाणाङ्गुलं, तत्र ये यस्मिन् काले भरतसगरादयो मनुष्याः प्रमाणयुक्ता भवन्ति तेषां च सम्बन्धी अत्रात्मा गृद्यते, आत्मनोऽङ्गुलमात्माङ्गुलम्, अत एवाह-'जे 'मित्यादि, ये भरतादयः
उपक्रमे प्रमाणयुक्ता यदा भवन्ति तेषां तदा स्वकीयमङ्गुलमात्माङ्गुलमुच्यत इति शेषः, इदं च पुरुषाणां कालादिभे- काप्रमाणद्वारं देनानवस्थितमानत्वादनियतप्रमाणं द्रष्टव्यम्, अनेनैवात्माङ्गुलेन पुरुषाणां प्रमाणयुक्ततादिनिर्णयं कुर्व-18 नाह-'अप्पणो अंगुलेणं दुवालसे'त्यादि, यद्यस्यात्मीयमङ्गुलं तेनात्मनोऽङ्गुलेन द्वादशाङ्गुलानि मुखं प्रमाणयुक्तं भवति, अनेन च मुखप्रमाणेन नव मुखानि सर्वोऽपि पुरुषः प्रमाणयुक्तो भवति, प्रत्येकं द्वादशाङ्गुलैनेवभिमुखैरष्टोत्तरं शतमङ्गलानां संपद्यते, ततश्चैतावदुच्छ्रयः पुरुषः प्रमाणयुक्तो भवतीति परमार्थः । अथ तस्यैव मानयुक्तताप्रतिपादनार्थमाह-द्रोणिकः पुरुषो मानयुक्तो भवति, द्रोणी-जलपरिपूर्णा महती कुण्डिका तस्यां प्रवेशितो यः पुरुषो जलस्य द्रोणं पूर्वोक्तस्वरूपं निष्काशयति द्रोणोनजलस्योनां वा तां पूरयति स द्रोणिकः पुरुषो मानयुक्तो निगद्यते इति भावः । इदानीमेतस्यैवोन्मानयुक्ततामाह-सारपुद्गलरचितत्वात् तुलारोपितः सन्न भारं तुलयन् पुरुष उन्मानयुक्तो भवति, तत्रोत्तमपुरुषा यथोक्तैःप्रमाणमानोन्मानैः अन्यैश्च सर्वेरेव गुणैः सम्पन्ना एव भवन्तीत्येतद्दर्शयन्नाह–'माणुम्माण' गाहा, अनन्तरोक्तखरूपैर्मानोन्मानप्रमाणैर्युक्ता उत्तमपुरुषाः चक्रवादयो मुणितव्या इति सम्बन्धः, तथा लक्षणानि-शस्वस्तिकादीनि व्यञ्जनानि-मषी
॥१५७॥ तिलकादीनि गुणा:-क्षान्त्यादयस्तैरुपेताः, तथोत्तमकुलानि-उग्रादीनि तत्प्रसूता इति गाथार्थः ॥ अथात्मा
Jain Education
For Private
Personal Use Only
H
iainelibrary.org