________________
अनुयो० मलधारीया
16
वृत्तिः उपक्रमे प्रमाणद्वारं
॥१५५॥
कल्पनया खातादिविषयाणां द्रव्याणां खातादीनामेवेति तात्पर्यम् , अवमानमेव प्रमाणं तस्य निवृत्तिलक्षणं भवतीति, तदेतदवमानमिति निगमनम् । 'से किं तं गणिमे' इत्यादि, गण्यते-सख्यायते वस्त्वनेनेति गणिमम्-एकादि, अथवा गण्यते-सङ्ख्यायते यत्तद्गणिम-रूपकादि, तत्र कर्मसाधनपक्षमङ्गीकृत्याह-'जण्ण'- मित्यादि, गण्यते तद्गणिमं, कथं गण्यते इत्याह-'एक्को' इत्यादि, एतेन गणिमप्रमाणेन किं प्रयोजनमित्यादि गतार्थमेव, नवरं भृतकः-कर्मकरो भृतिः-पदात्यादीनां वृत्तिः भक्तं-भोजनं वेतनकं-कुविन्दादिना(दीना) व्यूतवस्त्रव्यतिकरेऽर्थप्रदानम् , एतेषु विषये आयव्ययसंश्रितानां-प्रतिबद्धानां रूपकादिद्रव्याणां गणिमप्रमाणेन निवृत्तिलक्षणम्-इयत्तावगमरूपं भवति, तदेतद्गाणिममिति । अथ प्रतिमानप्रमाणं निरूपयितुमाह
से किं तं पडिमाणे ?, २ जण्णं पडिमिणिजइ, तंजहा-गुंजा कागणी निप्फावो कम्ममासओ मंडलओ सुवण्णो, पंच गुंजाओ कम्ममासओ कागण्यपेक्षया, चत्तारि कागणीओ कम्ममासओ तिणि निप्फावा कम्ममासओ एवं चउक्को कम्ममासओ काकण्यपेक्षयेत्यर्थः, बारस कम्ममासया मंडलओ एवं अडयालिसं कागणीओ मंडलओ सोलस कम्ममासया सुवण्णो एवं चउसट्ठि कागणीओ सुवण्णो, एएणं पडि
॥१५५॥
Jain Education
For Private Personal Use Only
ainelibrary.org