SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ मानः, अनेनैव हस्तेन चतुर्भिर्हस्तैर्निष्पन्ना अवमानविशेषा दण्डधनुर्युगनालिकाऽक्षमुशलरूपा षट् संज्ञा लभ्यन्ते, अत एवाह - 'दंड' गाहा, दण्डं धनुर्युगं नालिकां चाक्षं मुशलं च करणसाधनपक्षमङ्गीकृत्यावमानसंज्ञया विजानीहीति सम्बन्धः, दण्डादिकं प्रत्येकं कथंभूतमित्याह - चतुर्हस्तं दशभिर्नालिकाभिर्निष्पन्नां रज्जुं च विजानीह्यवमानसंज्ञयेति गाथार्थः । ननु यदि दण्डादयः सर्वे चतुर्हस्तप्रमाणास्तह्येकेनैव दण्डाद्यन्यतरोपादानेन चरितार्थत्वात् किमिति षण्णामप्युपादानम् ?, उच्यते, मेयवस्तुषु भेदेन व्याप्रियमाणत्वात्, तथा चाह - 'वत्थुमि' गाहा, वास्तुनि - गृह भूमौ मीयतेऽनेनेति मेयं मानमित्यर्थः, लुप्तद्वितीयैकवचनत्वेन हस्तं विजानीहीति सम्बन्धः, हस्तेनैव वास्तु मीयत इति तात्पर्यम्, क्षेत्रे - कृषिकर्मादिविषयभूते चतुर्हस्तवंशलक्षणं दण्डमेव मानं विजानीहि धनुरादीनां चतुर्हस्तत्वे समानेऽपि रूढिवशाद्दण्डसंज्ञाप्रसिद्धेनैवावमानविशेषेण क्षेत्रं मीयते इति हृदयं, पथि मार्गविषये धनुरेव मानं, मार्गगव्यूतादिपरिच्छेदो धनुःसंज्ञाप्रसिद्धेनै| वावमानविशेषेण क्रियते न दण्डादिभिरिति भावः, खातं च-कूपादिना नालिकयैव यष्टिविशेषरूपया मीयत इति गम्यते, एवं युगादिरपि यस्य यत्र व्यापारो रूढस्तस्य तत्र वाच्यः, यत्कथंभूतं हस्तदण्डादिकमित्याहअवमानसंज्ञयोपलक्षितमिति गाथार्थः । एतेनावमानप्रमाणेन किं प्रयोजनमित्यादि भावितार्थमेव, नवरं खातं - कूपादि चितं त्विष्टिकादि रचितं प्रासादपीठादि ऋकचितं - करपत्रविदारितं काष्ठादि, कटादयः प्रतीता एव, परिक्षेपो-भित्त्यादेरेव परिधिः नगरपरिखादिर्वा, एतेषां खातादिसंसृतानामभेदेऽपि भेदवि Jain Education 79 For Private & Personal Use Only jainelibrary.org
SR No.600060
Book TitleAnuyogadwarasutram Uttarardham
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages546
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy