SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ प्रमाणं मानप्रमाणं धान्यविषयं मानप्रमाणं धान्यमानप्रमाणं, तच 'दो असईओं इत्यादि, अश्नुते तत्प्रभवत्वेन समस्तधान्यमानानि व्यामोतीत्यसतिः-अवाङ्मुखहस्ततलरूपा, तत्परिच्छिन्नं धान्यमपि तथोच्यते, तद्द्येन निष्पन्ना नावाकारताव्यवस्थापितप्राञ्जलकरतलरूपा प्रसूतिः, द्वे च प्रसूती सेतिका, सा च नेह प्रसिद्धा गृह्यते, मागधदेशमसिद्धस्यैवात्र मानस्य प्रतिपिपादयिषितत्वाद् , अत इयं तत्प्रसिद्धा काचिदवगहैन्तव्या, चतस्रः सेतिकाः कुडवा, ते चत्वारः प्रस्था, अमी चत्वार आढक इत्यादि सूत्रसिद्धमेव, यावदष्टभि राढकशतैर्निवृत्तो वाहः, अत्राह शिष्यः-एतेनासत्यादिना धान्यमानप्रमाणेन किं प्रयोजनं-किमनेन विधीयते इत्यर्थः, अत्रोत्तरं, एतेन धान्यमानप्रमाणेन 'मुक्तोलीमुखेदुरालिन्दापचारिसंश्रितानां' मुक्तोल्याद्याधारगतानां धान्यानां धान्यस्य-यन्मानम् इयत्तालक्षणं तदेव प्रमाणं तस्य निर्वृत्ति-सिद्धिस्तस्या लक्षणं-परिज्ञानं भवति, एतावदत्र धान्यमस्तीति परिज्ञानं भवतीत्यर्थः, तत्र मुक्तोली-मोहा[हाअध उपरि च सङ्कीर्णा मध्ये त्वीषद्विशाला कोष्टिका, मुखं गच्या उपरि यद्दीयते, सुम्बादिव्यूतं ढश्चनकादि तदिदूरं, आलिन्दकंकुण्डुल्कम् अपचारि-दीर्घतरधान्यकोष्ठाकारविशेषः। रसमानप्रमाणमाह-से किं तमि'त्यादि, रसो-मद्यादिस्तद्विषयं मानमेव प्रमाणं रसमानप्रमाणं, किमित्याह-धान्यमानप्रमाणात् सेतिकादेश्चतुर्भागविवर्द्धितंचतुर्भागाधिकम् अभ्यन्तरशिखायुक्तं यद् रसमानं विधीयते-क्रियते तद्रसमानप्रमाणमुच्यते, धान्यस्याद्रवरूपत्वारिकल शिखा भवति, रसस्य तु द्रवरूपत्वान्न शिखासम्भवोऽतो बहिःशिखाभावात् धान्यमाना Jain Education For Private Personale Only Mainelibrary.org
SR No.600060
Book TitleAnuyogadwarasutram Uttarardham
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages546
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy