________________
अनुयो० मलधारीया
॥१५२॥
तत्र द्रव्यप्रमाणं द्विविध-प्रदेशनिष्पन्नं विभागनिष्पन्नं च, तत्र प्रदेशा-एकद्विव्याद्यणवस्तैर्निष्पन्नं प्रदेश
वृत्तिः निष्पन्नं, तत्रैकप्रदेशनिष्पन्नः परमाणुः, द्विप्रदेशनिवृत्तो द्विप्रदेशिकः प्रदेशत्रयघटितस्त्रिप्रदेशिका, एवं उपक्रमे यावदनन्तैः प्रदेशैः सम्पन्नोऽनन्तप्रदेशिकः, नन्विदं परमाण्वादिकमनन्तप्रदेशिकस्कन्धपर्यन्तं द्रष्यमेव, तत- प्रमाणद्वार स्तस्य प्रमेयत्वात् प्रमाणता न युक्तेति चेत्, नैवं, प्रमेयस्यापि द्रव्यादेः प्रमाणतया रूढत्वात् , तथाहि-प्रस्थकादिप्रमाणेन मित्वा पुञ्जीकृतं धान्यादि द्रव्यमालोक्य लोके वक्तारो भवन्ति-प्रस्थकादिरयं पुञ्जीकृतस्तिष्ठतीति, ततश्चैकद्वित्र्यादिप्रदेशनिष्पन्नत्वलक्षणेन स्वस्वरूपेणैव प्रमीयमाणत्वात्परमाण्वादिद्रव्यस्यापि कर्मसाधनप्रमाणशब्दवाच्यताऽदुष्टैव, करणसाधनपक्षे त्वेकद्वित्र्यादिप्रदेशनिष्पन्नत्वलक्षणं खरूपमेव मुख्यतया प्रमाणमुच्यते, द्रव्यं तु तत्खरूपयोगादुपचारतः, भावसाधनतायां तु प्रमितेः प्रमाणप्रमेयाधीनत्वादुपचारादेव प्रमायणप्रमेययोः प्रमाणताऽवगन्तव्या, तदेवं कर्मसाधनपक्षे परमाण्वादि द्रव्यं मुख्यतया प्रमाणमुच्यते, करण-12 भावसाधनपक्षयोस्तूपचारत इत्यदोषः । इदं च यथोत्तरमन्यान्यसङ्ख्योपेतैः खगतैरेव प्रदेशैर्निष्पन्नत्वात् प्रदेशनिष्पन्नमुक्तं, द्वितीयं तु खगतप्रदेशान् विहायापरो विविधो विशिष्टो वा भागो भङ्गो विकल्पः प्रकार इतियावत्तेन निष्पन्नं विभागनिष्पन्नं, तथाहि-न धान्यमानादेः खगतप्रदेशाश्रयणेन खरूपं निरूपयिष्यते, अपि तु 'दो असईओ पसईत्यादिको यो विशिष्टः प्रकारस्तेनेति । तच्च पञ्चविधं, तद्यथा-मानम् उन्मानम्
M॥१५२॥ अवमानं गणिमं प्रतिमानं, पुनरपि मानप्रमाणं द्विधा-धान्यमानप्रमाणं च रसमानप्रमाणं च, तत्र मानमेव
CG
Jain Education in
For Private & Personel Use Only
vdainelibrary.org