________________
अनुयो० मलधारीया
वृत्तिः उपक्रमाधि०
॥१५०॥
दिषु नायं दृश्यते तत्किमित्येवंभूतनाम्नामिहोपन्यासः?, अत्रोच्यते, अस्मादेव सूत्रोपन्यासात् तृणानि हरतिवहतीत्यादिकः कश्चिदाद्यव्याकरणदृष्टस्तद्धितोत्पत्तिहेतुभूतोऽथों द्रष्टव्यः, ततो यद्यपि साक्षात्तद्धितप्रत्ययो नास्ति तथापि तदुत्पत्तिनिबन्धनभूतमर्थमाश्रित्येह तन्निर्देशो न विरुध्यते, यदि तद्धितोत्पत्तिहेतुरर्थोऽस्ति तर्हि तद्धितोऽपि कस्मान्नोत्पद्यत इति चेत् ? लोके इत्थमेव रूढत्वादिति ब्रूमः, अथवा अस्मादेवांद्यमुनिप्रणीतसूत्रज्ञापकादेवं जानीयाः-तद्धितप्रत्यया एवामी केचित् प्रतिपत्तव्या इति । अथ शिल्पतद्धितनामोच्यतेवस्त्रं शिल्पमस्येति वास्त्रिकः, तन्त्रीवादनं शिल्पमस्येति तान्त्रिकः, तुन्नाए तंतुवाए इत्यादि प्रतीतम्, आक्षेपपरिहारौ उक्तावेव, याचेह पूर्व च कचिद्वाचनाविशेषेऽप्रतीतं नाम दृश्यते तद्देशान्तररूढितोऽवसेयम् । अथ श्लाघातद्धितनामोच्यते-'समणे' इत्यादि, श्रमणादीनि नामानि श्लाघ्येष्वर्थेषु साध्वादिषु रूढान्यतोऽस्मादेव सूत्रनिबन्धात् श्लाघ्यार्थास्तद्धितास्तदुत्पत्तिहेतुभूतमर्थमानं वा अत्रापि प्रतिपत्तव्यम् । संयोगतद्वितनाम राज्ञः श्वशुर इत्यादि, अत्र सम्बन्धरूपः संयोगो गम्यते, अत्रापि चास्मादेव ज्ञापकात् तद्धितनामता, चित्रं च पूर्वगतं शब्दप्राभृतमप्रत्यक्षं च नः अतः कथमिह भावनाखरूपमस्मादृशैः सम्यगवगम्यते । समीपतद्धितनाम गिरिसमीपे नगरं गिरिनगरम् , अत्र 'अदूरभवश्चे'त्यण (पा० ४-२-७०) न भवति, गिरि-1 नगरमित्येव प्रतीतत्वात्, विदिशाया अदूरभवं नगरं वैदिशम् ,अत्र त्वदूरभवश्चेत्यण भवत्येव, इत्थमेव रूढ| त्वादिति । संयूथतद्धितनाम 'तरंगवइक्कारए' इत्यादि, तद्धिनामता चेहोत्तरत्र च पूर्ववद्भावनीया । ऐश्वर्यत
॥१५०॥
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org