SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ द्वितनाम-राईसरे इत्यादि, इह राजादिशब्दनिवन्धनमैश्वर्यमवगन्तव्यं, राजेश्वरादिशब्दार्थस्त्विहैव पूर्व व्याख्यात एव । अपत्यतद्धितनाम-तित्थयरमाया' इत्यादि, तीर्थकरोऽपत्यं यस्याः सा तीर्थकरमाता, एवमन्यत्रापि सुप्रसिद्धेनाप्रसिद्धं विशिष्यते, अत एव तीर्थकरादिभिर्मातरो विशेषिताः, तद्धितनामत्वभावना तथैव, गतं तद्धितनाम । अथ धातुजमुच्यते-से किं तं धाउए' इत्यादि, भूरयं परस्मैपदी धातुः सत्तालक्षमाणस्यार्थस्य वाचकत्वेन धातुजं नामेति, एवमन्यत्रापि, अभिधानाक्षरानुसारतो निश्चितार्थस्य वचनं-भणनं निरुक्तं तत्र भवं नैरुक्तं, तच्च मयां शेते महिष इत्यादिकं पाठसिद्धमेव, तदेवमुक्तं नैरुक्तं नाम । तद्भणने चावसितं भावप्रमाणनाम, तदवसाने च समर्थितं प्रमाणनाम, तत्समर्थने च समापितं गौणादिकं दशनाम, एतैरपि च दशनामभिः सर्वस्यापि वस्तुनोऽभिधानद्वारेण सङ्ग्रहाद्दशनामेदमुच्यते, तत्समाप्तौ च समाप्तमुपक्रमान्तर्गतं द्वितीयं नामद्वारम् , अतः से तं निरुत्तिए' इत्यादि पश्च निगमनानि, नामद्वारं समाप्तम् ॥१३१॥ उक्तमुपक्रमान्तर्गतं द्वितीयं नामद्वारमथ तदन्तर्गतमेव क्रमप्राप्तं तृतीयं प्रमाणद्वारमभिधित्सुराह से किं तं पमाणे ?, २ चउविहे पण्णत्ते, तंजहा-दव्वपमाणे खेत्तपमाणे कालप्पमाणे भावप्पमाणे (सू० १३२ )। से किं तं दव्वपमाणे ?, २ दुविहे पण्णत्ते, तंजहापएसनिप्फपणे अ विभागनिप्फपणे अ । से किं तं पएसनिप्फण्णे ? २ परमाणुपो अनु. २६॥ Jain Education ind For Private Personal Use Only P ainelibrary.org
SR No.600060
Book TitleAnuyogadwarasutram Uttarardham
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages546
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy