________________
XSARA PARISH CHORUS
च बाधृ लोडने, से तं धाउए। से किं तं निरुत्तिए ?, २ मह्यां शेते महिषः, भ्रमति च रौति च भ्रमरः मुहुर्मुहुर्लसतीति मुसलं करिव लम्बते त्थेति च करोति कपित्थं चिदितिकरोति खल्लं च भवति चिक्खल्लं ऊर्ध्वकर्णः उलूकः मेखस्य माला मेखला, से तं निरुत्तिए । से तं भावपमाणे । से तं पमाणनामे । से तं दसनामे । से तं
नामे । नामेति पयं समत्तं । (सू० १३१) तडिताजातं तद्धितजम्, इह तद्धितशब्देन तद्वितप्राप्तिहेतुभूतोऽर्थो गृह्यते, ततो यत्रापि तुन्नाए तंतुवाए तद्धितप्रत्ययो न दृश्यते तत्रापि तद्धेतुभूतार्थस्य विद्यमानत्वात्तद्धितजत्वं सिद्धं भवति, 'कम्मे गाहा पाठसिद्धा, नवरं श्लोकः-श्लाघा संयूथो-ग्रन्थरचना, एते च कर्मशिल्पादयोास्तद्धितप्रत्ययस्योत्पित्सोनिमित्तीभवन्तीत्येतद्भेदात्तद्धितजं नामाष्टविधमुच्यत इति भावः, तत्र कर्म तद्धितजं 'दोसिए सोत्तिए' इत्यादि, दृष्यं पण्यमस्येति दोषिकः, सूत्रं पण्यमस्येति सौत्रिका, शेषं प्रतीतं, नवरं भाण्डविचारः कर्मास्येति भाण्डवैचारिकः, कौलालानि-मृद्भाण्डानि पण्यमस्येति कौलालिकः, अत्र कापि 'तणहारए' इत्यादिपाठो दृश्यते, तत्र कश्चिदाह-नन्वत्र तन्हितप्रत्ययो न कश्चिदुपलभ्यते तथा वक्ष्यमाणेष्वपि 'तुन्नाए तंतुवाए' इत्या
Jain Education
For Private & Personal use only
www.jainelibrary.org