SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ पुरिसत्ति तथा बहवः पुरुषाः, बहुवचनान्तः पुरुषशब्द इत्यर्थः, एकशेषे समासे सति बह्वर्थवाचक इति शेषः, | यथा चैकशेषे समासे बहुवचनान्तः पुरुषशब्दो बह्वर्थवाचकस्तथैकवचनान्तोऽपीति न कश्चिद्विशेषः, एतदुक्तं भवति-यथा पुरुषश्च ३ इति विधाय एकपुरुषशब्दशेषता क्रियते तदा यथैकवचनान्तः पुरुषशब्दो बह्वान वक्ति तथा बहुवचनान्तोऽपि, यथा बहुवचनान्तस्तथैकवचनान्तोऽपीति न कश्चिदेकवचनान्तबहुवचनान्तयोर्विशेषः, केवलं जातिविवक्षायामेकवचनं बह्वर्थविवक्षायां तु बहुवचनमिति । एवं कार्षापणशाल्यादिष्वपि भावनीयम् । अयं च समासो द्वन्द्वविशेष एवोच्यते, केवलमेकशेषताऽत्र विधीयते इत्येतावता | पृथगुपात्त इति लक्ष्यते, तत्त्वं तु सकलब्याकरणवेदिनो विदन्तीत्यलमतिविजृम्भितेन, गतं सामासिकम् । से किं तं तद्धितए ?, २ अट्टविहे पण्णत्ते, तंजहा-कम्मे सिप्पसिलोए संजोगसमीवओ अ संजूहो । इस्सरिअ अवच्चेण य तद्धितणामं तु अट्टविहं ॥१॥ से किं तं कम्मणामे ?, २ तणहारए कट्टहारए पत्तहारए दोसिए सोत्तिए कप्पासिए भंडवेआलिए कोलालिए, से तं कम्मनामे । से किं तं सिप्पनामे ?, २ तुण्णए तंतुवाए पट्टकारे उएट्टे बरुडे मुंजकारे कट्टकारे छत्तकारे Jain Education a l For Private Personal Use Only jainelibrary.org
SR No.600060
Book TitleAnuyogadwarasutram Uttarardham
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages546
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size23 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy