________________
--
-
वृत्तिः
अनुयो० मलधा-
उपक्रमाधि
रीया
॥१४८॥
मित्यादौ त्वप्राणिजातिवादश्वमहिषमित्यादौ पुनः शाश्वतिकवैरित्वाद्, एवमन्यान्यप्युदाहरणानि भावनी
यानि, अन्यपदार्थप्रधानो बहुव्रीहिः पुष्पिताः कुटजकदम्बा यस्मिन् गिरौ सोऽयं गिरिः पुष्पितकुटजकदम्बः,8 ॐ तत्पुरुषः समानाधिकरणः कर्मधारयः, स च धवलश्चासौ वृषभश्च धवलवृषभ इत्यादि, सङ्ख्यापूर्वो द्विगु:
त्रीणि कटुकानि समाहृतानि त्रिकटुकम्, एवं त्रीणि मधुराणि समाहृतानि त्रिमधुरं, पात्रादिगणे दर्शनादिह पञ्चपूलीत्यादिवत् स्त्रियामीप्प्रत्ययो न भवति, एवं शेषाण्यप्युदाहरणानि भावनीयानि, द्वितीयादिविभक्त्यन्तपदानां समासस्तत्पुरुषः, तत्र तीर्थे काक इवास्ते तीर्थकाकः 'ध्वाक्षेण क्षेप' (कातं०) इति सप्तमीतत्पुरुषः, शेषं प्रतीतं, पूर्वपदार्थप्रधानोऽव्ययीभावः, तत्र ग्रामस्य अनु समीपेन मध्येन वाऽशनिर्गता अनुग्रामम् , एवं नद्याः समीपेन मध्येन वा निर्गता अनुनदीत्याद्यपि भावनीयं, 'सरूपाणामेकशेष एकविभक्ता वित्यनेन सूत्रेण समानरूपाणामेकविभक्तियुक्तानां पदानामेकशेषः समासो भवति, सति समासे एकः शिष्यतेऽन्ये तु लुप्यन्ते, यश्च शेषोऽवतिष्ठते स आत्मार्थे लुप्तस्य लुप्तयोलतानां चार्थे वर्तते, अथ एकस्य लुप्तस्यात्मनश्चार्थे वर्तमानात्तस्मात् द्विवचनं भवति, यथा पुरुषश्च पुरुषश्चेति पुरुषी, द्वयोश्च लुप्तयोरात्मनश्चार्थे वर्तमानाहहुवचनं यथा पुरुषश्च ३ पुरुषाः, एवं बहूनां लुप्तानामात्मनश्चार्थे वर्तमानादपि बहुवचनं यथा पुरुषश्च ४
पुरुषा इति, जातिविवक्षायां तु सर्वत्रैकवचनमपि भावनीयम् । अतः सूत्रमनुश्रीयते-'जहा एगो पुरिसोत्ति ४ यथैकः पुरुषः, एकवचनान्तः पुरुषशब्द इत्यर्थः, एकशेषे समासे सति बह्वर्थवाचक इति शेषः, 'तहा बहवे
॥१४८॥
Jain EducationitTTA
For Private
Personel Use Only
Mainedorary.org.