SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ अनुयो० मलधा रीया ॥ १४६ ॥ Jain Education Int रोहिण्यादिसप्तविंशतिनक्षत्राण्याश्रित्य नामस्थापना द्रष्टव्या, तत्र सर्वनक्षत्रसङ्ग्रहार्थं 'कत्तियारोहिणी त्यादि गाथात्रयं सुगमं, नवरमभीचिनक्षत्रेण सह पठ्यमानेषु नक्षत्रेषु कृत्तिकादिरेव क्रम इत्यश्विन्यादिक्रममुत्सृज्येत्थमेव पठितवानिति, एषां चाष्टाविंशतिनक्षत्राणामधिष्ठातारः क्रमेणान्यादयोऽष्टाविंशतिरेव देवतावि शेषा भवन्त्यतः कृत्तिका दिनक्षत्रजातस्य कश्चिदिच्छादिवशतस्तदधिष्ठातृदेवता एवाश्रित्य नामस्थापनं विधत्त इत्येतद्दर्शनार्थमाह - 'से किं तं देवयाणामे' इत्यादि, अग्निदेवतासु जातः आग्निकः एवमग्निदत्तादीन्यपि, नक्षत्रदेवतानां सङ्ग्रहार्थम् 'अग्गी' त्यादि गाथाद्वयं तत्र कृत्तिका नक्षत्रस्याधिष्ठाता अग्निः, रोहिण्याः प्रजापतिः, एवं मृगशिरःप्रभृतीनां क्रमेण सोमो रुद्रः अदितिः बृहस्पतिः सर्पः पितृ भगः अर्यमा सविता त्वष्टा वायुः इन्द्राग्निः मित्रः इन्द्रः निऋतिः अम्भः विश्वः ब्रह्मा विष्णुः वसुः वरुणः अजः विवर्द्धिः अस्य स्थानेऽन्यत्र अहिर्बुनः पठ्यते, पूषा अश्वः यमश्चैवेति, 'से तं देवतानामे', । 'से किं तं कुलनामें इत्यादि, यो यस्मिन्नुग्रादिकुले जातस्तस्य तदेवोग्रादि कुलनाम स्थाप्यमानं कुलस्थापनानामोच्यत इति भावार्थः । 'से किं तं पासंडणामे' इत्यादि, इह येन यत्पाषण्डमाश्रितं तस्य तन्नाम स्थाप्यमानं पाषण्डस्थापनानामाभिधीयते, तत्र 'निग्गंथसक्कताव सगेरुयआजीव पंचहा समणा' इति वचनान्निर्ग्रन्धादिपञ्चपाषण्डान्याश्रित्य श्रमण उच्यते, | एवं नैयायिकादिपाषण्डमाश्रिताः पाण्डुराङ्गादयो भावनीयाः, नवरं भिक्षुर्बुद्धदर्शनाश्रितः । 'से किं तं गणनामे' इत्यादि, इह मल्लादयो गणाः, तत्र यो यस्मिन् गणे वर्तते तस्य तन्नाम गणस्थापनानामोच्यते इति, मल्ले For Private & Personal Use Only वृत्तिः उपक्र माधि० ॥ १४६ ॥ ainelibrary.org
SR No.600060
Book TitleAnuyogadwarasutram Uttarardham
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages546
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy