SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ अनुयो० मलधा या ॥ १३८ ॥ Jain Education होइ बीभत्सो ॥ १२ ॥ बीभत्सो रसो जहा - असुइमलभरियनिज्झरसभावदुग्गंधि सव्वकालंपि । धण्णा उ सरीरकलिं बहुमलकलु विमुंचति ॥ १३ ॥ अशुचि - मूत्रपुरीषादि वस्तु कुणपं- शवः अपरमपि यद्दुर्दर्शनं गल्ल्लालादिकरालं शरीरादि तेषां संयोगाभ्यासाद्-अभीक्ष्णं तद्दर्शनादिरूपात् तद्गन्धाच निष्पन्नो बीभत्सो रसो भवतीति सम्बन्धः, किंलक्षण इत्याह-निर्वेदश्च, अकारस्य लुप्तस्य दर्शनादविहिंसा च तल्लक्षणं यस्य स तथा, तत्र निर्वेद:- उद्वेगः अविहिंसा - जन्तुघातादिनिवृत्तिः इह च शरीरादेरसारतामुपलभ्य हिंसादिपापेभ्यः कश्चिन्निवर्तते इत्यविहिंसाऽपि तल्लक्षणत्वेनोक्तेति । 'असुई' त्याद्युदाहरणगाथा, इह कञ्चिदुपलब्धशरीरायसारताखरूपः प्राह - कलि:-जधन्यः कालविशेषः कलहो वा तत्र सर्वानिष्टहेतुत्वात् सर्वकलहमूलत्वाद्वा शरीरमेव कलिः शरीरकलिस्तं मूर्च्छात्यागेन मुक्तिगमनकाले सर्वथात्यागेन वा धन्याः केचिद्विमुञ्चन्तीति सण्टङ्कः, कथंभूतम् ? - अशुचिमलभृतानि निर्झराणि-श्रोतादिविवराणि यस्य तत्तथा सर्वकालमपि खभावतो दुर्गन्धं, तथा बहुमलकलुषमिति, एवं वाचनान्तराण्यपि भावनीयानि ॥ अथ हास्यरसं हेतुलक्षणाभ्यामाह रूववयवेसभासाविवरीअविलंबणासमुप्पण्णो । हासो मणप्पहासो पगासलिंगो रसो tional For Private & Personal Use Only वृत्तिः उपक्रमाधि० ॥ १३८ ॥ www.jainelibrary.org
SR No.600060
Book TitleAnuyogadwarasutram Uttarardham
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages546
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy