________________
15
विनयोपचारगुह्य गुरुदारमर्यादानां व्यतिक्रमः - स्थितिलङ्घनं तदुत्पन्नो व्रीडनको नाम रसो भवति, तत्र विनयार्द्धानां विनयोपचारव्यतिक्रमे शिष्टस्य पश्चात् व्रीडा प्रादुरस्ति, पश्यत मया कथं पूज्यपूजाव्यतिक्रमः कृत इति, तथा गुह्यं - रहस्यं तस्य च व्यतिक्रमेऽन्यकथनादिलक्षणे ब्रीडारसः प्रादुर्भवति, तथा गुरवः - पूज्याः पितृव्यकला ग्राहकोपाध्यायादयस्तद्दारैश्च सहाब्रह्मसेवादिलक्षणे मर्यादाव्यतिक्रमे कृते लज्जारसः प्रादुर्भवतीति, एवमन्योऽपि द्रष्टव्यः, किंलक्षण इत्याह- लज्जाशङ्कयोः करणं विधानं लिङ्गं यस्य स तथा तत्र शिरसोऽधोऽवनमनं गात्रसङ्कोचादिका लज्जा, मां न कचित् कश्चित् किञ्चिद्भणिष्यतीति सर्वत्राभिशङ्कितत्वं शङ्केति । अत्रोदाहरणं- 'किं लोइयगाहा, इह कचिद्देशेऽयं समाचारो, यदुत अभिनववध्वाः खभर्त्रा यत् प्रथमयोन्युद्भेदे कृते शोणितचर्चितं तन्निवसनं अक्षतयोनिरियं न पुनरग्रेऽप्यासेवितानाचारेति संज्ञापनार्थ प्रतिगृहं भ्राम्यते, सकलजनसमक्षं च श्वश्रूश्वशुरादिस्तदीयगुरुजनः सतीत्वख्यापनार्थं तद्वन्दत इति, एवं व्यवस्थिते सखीपुरतो वधूर्भणति – 'किं लोइयकरणी उत्ति करणी - क्रिया, ततश्च लौकिकक्रियाया-लौकिककर्त्तव्यात् सकाशात् किमन्यल्लज्जनीयतरं ?, न किञ्चिदित्यर्थः इत्यतो लज्जिताऽहं भवामि, किमिति ? - यतो 'वारेज्जो' विवाहः तत्र गुरुजनो वन्दते 'वहुप्पोत्तं'ति वधूनिवसनमिति ॥ अथ वीभत्सं हेतुतो लक्षणतञ्चाह
असुइकुणिमदुदंसणसंजोग भासगंधनिष्फण्णो । निव्वेअऽविहिंसालक्खणो रसो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org