SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ अनुयो० मलधारीया वृत्तिः उपक्रमाधि. ॥१३७॥ द इत्यादिखेदखरूपः मरणं-भयोद्धान्तगजसुकमालहन्तृसोमिलद्विजस्येव प्राणत्यागस्तानि 'लिङ्ग लक्षणं यस्य स तथा। आह-ननु भयजनकरूपादिभ्यः समुत्पन्नः संमोहादिलिङ्गश्च भयानक एव भवति, कथमस्य रौद्रत्वं ?, सत्यं, किन्तु पिशाचादिरौद्रवस्तुभ्यो जातत्वाद् रौद्रत्वमस्य विवक्षितमित्यदोषः, तथा शत्रुजनादिदर्शने तच्छिर कर्तनादिप्रवृत्तानां पशुशूकरकुरङ्गवधादिप्रवृत्तानां च यो रौद्राध्यवसायात्मको भ्रुकुटीभङ्गादिलिङ्गो रौद्रो रसः सोऽप्युपलक्षणत्वादत्रैव द्रष्टव्यः, अन्यथा स निरास्पद एव स्याद्, अत एव रौद्रपरिणामवत्पु रुषचेष्टाप्रतिपादकमेवोदाहरणं दर्शयिष्यति, भीतचेष्टाप्रतिपादकं तु तत् स्वत एवाभ्यूह्यमित्यलं प्रसङ्गेन । है उदाहरणमाह-भिउडीगाहा, त्रिवलीतरङ्गितललाटरूपया भ्रकुट्या विडम्बितं-विकृतीकृतं मुखं यस्य तत् सम्बोधनं हे भृकुटीविडम्बितमुख ! संदष्टौष्ठः 'इत' इति इतश्च इतश्च 'रुहिरमाकिपण'त्ति विक्षिप्त रुधिर इत्यर्थः, 'हसि' व्यापादयसि पशुम्, असुरो-दानवस्तन्निभ:-तत्सदृशाभीमं रसितं-शब्दितं यस्य तत्स*म्बोधनं हे भीमरसित ! 'अतिरौद्र' अतिशयरौद्राकृते! रौद्रोऽसि-रौद्रपरिणामयुक्तोऽसीति ॥ अथ व्रीडारसं हेतुतो लक्षणतश्चाह विणओवयारगुज्झगुरुदारमेरावइक्कमुप्पण्णो । वेलणओ नाम रसो लज्जासंकाकरणलिंगो ॥ १० ॥ वेलणओ रसो जहा-किं लोइअकरणीओ लजणीअतरंति लज्जयामुत्ति । वारिज्जंमी गुरुयणो परिवंदइ जं वहुप्पोत्तं ॥ ११ ॥ ॥१३७॥ Jain Education India For Private Personel Use Only M ainelibrary.org
SR No.600060
Book TitleAnuyogadwarasutram Uttarardham
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages546
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy