________________
कस्मिंश्चिदद्भुते वस्तुनि दृष्टे विस्मयं करोति, विस्मयोत्कर्षरूपो यो रसो भवति सोऽद्भुतनामेति सण्टङ्कः, कथंभूतः?-अपूर्वः-अननुभूतपूर्वोऽनुभूतपूर्वो वा, किंलक्षण इत्याह-हर्षविषादोत्पत्तिलक्षणः, शुभे वस्तुन्यद्भुते दृष्टे हर्षजननलक्षणः अशुभे तु विषादजननलक्षण इत्यर्थः, उदाहरणमाह-'अन्भुय'गाहा, इह जीवलोकेऽद्भुततरम् इतो जिनवचनात् किमन्यदस्ति?, नास्तीत्यर्थः, कुत इत्याह-'यदू' यस्माजिनवचनेनार्थाः जीवादयः सूक्ष्मव्यवहिततिरोहितातीन्द्रियामूर्तादिवरूपाः अतीतानागतवर्तमानरूपत्रिकालयुक्ता अपि ज्ञायन्त इति ॥ अथ रौद्रं हेतुतो लक्षणतश्चाह
भयजणणरूवसबंधयारचिंताकहासमुप्पण्णो । संमोहसंभमविसायसरणलिंगो रसो रोहो ॥ ८॥ रोदो रसो जहा-भिउडीविडंबिअमुहो संदट्ठोट इअ रुहिरमाकिण्णो। हणसि पसुं असुरणिभो भीमरसिअ अइरोद्द ! रोदोऽसि ॥९॥ रूपं शत्रुपिशाचादीनां, शब्दस्तेषामेव, अन्धकार बहुलतमोनिकुरुम्बरूपम् , उपलक्षणत्वादरण्यादयश्च पदार्था इह गृह्यन्ते, तेषां भयजनकानां रूपादिपदार्थानां येयं चिन्ता-तत्खरूपपर्यालोचनरूपा, कथा तत्वरूपभणनलक्षणा, तथोपलक्षणत्वादु दर्शनादि च गृह्यते, तेभ्यः समुत्पन्नो-जातो रौद्रो रस इति योगः। किंलक्षण इत्याह-संमोह' किंकर्तव्यत्वमूढता सम्भ्रमो-व्याकुलत्वं विषादः-किमहमत्र प्रदेशे समायात
5
RERASHTRANS5
34545%
Jain Education
a
l
For Private
Personal Use Only
Mainelibrary.org