________________
अनुयो०
वृत्तिः
मलधारीया
उपक्रमाधि०
णलिंगो ॥ ४॥ सिंगारो रसो जहा-महुरविलाससललिअं हियउम्मादणकर जुवा
णाणं । सामा सदुद्दामं दाएती मेहलादामं ॥५॥ शृङ्गारो नाम रसः, किंविशिष्ट इत्याह-रती'त्यादि, रतिशब्देनेह रतिकारणानि सुरतव्यापाराङ्गानि ललनादीनि गृह्यन्ते, तैः साई संयोगाभिलाषसंजनकः, तस्य तत्कार्यत्वादेव, तथा मण्डनविलासविब्बोकहास्यलीलारमणानि लिङ्गं यस्य स तथा, तत्र मण्डनं कङ्कणादिभिः, विलासा-कामगर्भो रम्यो नयनादिविभ्रमो, विव्वोयत्ति देशीपदं अङ्गजविकारार्थ, हास्यं प्रतीतं, लीला-सकामगमनभाषितादिरमणीयचेष्टा, रमणं-क्रीडनमिति । उदाहरणमाह-सिंगारों'इत्यादि, 'महुर'गाहा, श्यामा स्त्री मेखलादाम-रसनासूत्रं दर्शयति, प्रकटयतीत्यर्थः, कथंभूतमित्याह-रणन्मणिकिङ्किणीवरमाधुर्यान्मधुरं, तथा विलासैः-सकामैश्चेष्टाविशेषैर्ललितंमनोहारि, तथा शब्दोद्दाम-किङ्किणीखनमुखरं, किमिति तत्प्रकटयतीत्याह-यतो 'हृदयोन्मादनकर' प्रबलस्मरदीपनं यूनामिति, शृङ्गारप्रधानचेष्टाप्रतिपादनादयं शृङ्गारो रस इति ॥ अद्भुतं स्वरूपतो लक्षणतश्चाह
विम्हयकरो अपुवो अनुभूअपुव्वो य जो रसो होइ । हरिसविसाउप्पत्तिलक्खणो अब्भओ नाम ॥६॥ अब्भुओ रसो जहा-अब्भअतरमिह एत्तो अन्नं किं अस्थि जीवलोगंमि । जं जिणवयणे अत्था तिकालजुत्ता मुणिजंति ? ॥ ७॥
CMOCRACCASEASOOR
Jain Educat
For Private
Personal use only
w
.jainelibrary.org