SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ तत्थ परिच्चायंमि अ दाणतवचरणसत्तुजणविणासे अ । अणणुसयधितिपरक्कमलिंगो वीरो रसो होइ ॥२॥ वीरो रसो जहा-सो नाम महावीरो जो रज्जं पयहिऊण पव्व इओ । कामकोहमहासत्तू पक्खनिग्घायणं कुणइ ॥३॥ 'तत्र' तेषु नवसु रसेषु मध्ये 'परित्यागे दाने 'तपश्चरणे' तपोविधाने शत्रुजनविनाशे च यथासङ्ख्यमननुशयधृतिपराक्रमचिह्नो वीरो रसो भवति, इदमुक्तं भवति-दाने दत्ते यदाऽनुशयो गर्वः पश्चात्तापो वा तं न करोति, तपसि च कृते धृतिं करोति नार्तध्यानं, शत्रुविनाशे च पराक्रमते न तु वैक्लव्यमवलम्बते तदा एतैर्लिङ्गैायतेऽयं प्राणी वीररसे वर्तते, इत्येवमन्यत्रापि भावना कार्येति । उदाहरणनिदर्शनार्थमाह-वीरो रसो यथेत्युपदर्शनार्थमेतत्, 'सो नाम गाहा पाठसिद्धा, नवरं वीररसवत्पुरुषचेष्टितप्रतिपादनादेवंप्रकारेषु काव्येषु वीररसः प्रतिपत्तव्य इति भावार्थः, अपरं चेहोत्तमपुरुषजेतव्यकामक्रोधादिभावशत्रुजयेनैव वीररसोदाहरणं मोक्षाधिकारिणि प्रस्तुतशास्त्रे इतरजनसाध्यसंसारकारणद्रव्यशत्रुनिग्रहस्याप्रस्तुतत्वादिति मन्तव्यमिति, एवमन्यत्रापि भावार्थोऽवगन्तव्य इति ॥शृङ्गाररसं लक्षणतस्त्वाह संगारो नाम रसो रतिसंजोगाभिलाससंजणणो। मंडणविलासविव्वोअहासलीलारम ROGRECORRCASSAMACROC964 Jain Education ! For Private & Personel Use Only Shinelibrary.org
SR No.600060
Book TitleAnuyogadwarasutram Uttarardham
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages546
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy